Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 मार्चमास (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सीपी राधाकृष्णन तथा गृहमन्त्री अमित शाह सहिताः बहवः नेतारः गुरुवासरे चैत्रनवरात्रि, नवसंवत्सर, गुड़ीपाडवा इत्यादिषु देशवासिनः अभिनन्दनानि शुभाशंसाश्च दत्तवन्तः।
राष्ट्रपतिः स्वसन्देशे उक्तवती—
“चैत्रशुक्लादौ, उगादि, गुड़ीपाडवा, चेतीचन्द, नवरेह तथा साजिबुचेरोबा इत्येषां पावनावसरेषु सर्वेभ्यः देशवासिभ्यः मम हार्दिकाः शुभाशंसाः। देशस्य विभिन्नप्रदेशेषु नववर्षागमनस्य स्वागतार्थं ये उत्सवाः आयोज्यन्ते, ते भारतस्य समृद्धसांस्कृतिकविविधतायाः उल्लासपूर्णप्रतीकाः सन्ति। मम मंगलकामना अस्ति यत् एते शुभपर्वाणि सर्वेषां जीवनं समृद्ध्या नवाशाभिश्च पूरयन्तु।”
उपराष्ट्रपतिः उक्तवान् यत् देशस्य विभिन्नेषु भागेषु आयोज्यमानाः एते उत्सवाः पारम्परिकनववर्षस्य आरम्भस्य प्रतीकाः सन्ति, ये भारतस्य समृद्धसांस्कृतिकविरासतां विविधतायां च एकतां प्रतिबिम्बयन्ति। एते शुभावसरा: सर्वेषां जीवनं सुखसमृद्धिनवाशाभिः पूरयन्तु।
गृहमन्त्री अमित शाह उक्तवान् यत् सः मातरं भगवतीं प्रति सर्वेषां उत्तमस्वास्थ्य, समृद्धि, वैभवपूर्णजीवनस्य कृते प्रार्थयति। ईश्वरः अस्मिन् नववर्षे सर्वेषां जीवनं नवीनेन ऊर्जया नवचेतनया च समृद्ध्या च पूरयतु।
केन्द्रीयसड़कपरिवहनमार्गमन्त्री नितिन गडकरी उक्तवान् यत् मातुः दुर्गायाः शक्तिः साहसं च तथा वसन्तऋतोरारम्भस्य प्रतीकं एतत् मंगलपर्व सर्वेभ्यः सुखशान्तिसमृद्धिं ददातु।
कांग्रेसराष्ट्रीयाध्यक्षः मल्लिकार्जुन खरगे उक्तवान् यत् एतत् पावनमहापर्व सर्वेषां जीवनं सुखशान्तिसमृद्धिसौख्यैः पूरयतु तथा आदिशक्तेः कृपा सर्वेषां उपरि सदा अस्तु।
लोकसभायाः विपक्षनेता राहुल गांधी उक्तवान् यत् एते शुभावसरा: भवतां जीवनं आनन्दसमृद्धिनूतनारम्भैः पूरयन्तु।
केन्द्रीयवस्त्रमन्त्री गिरिराज सिंह उक्तवान् यत् एषः पावनावसरः अस्माकं समृद्धसनातनपरम्पराया: संस्कृतेः नवचेतनाया: च प्रतीकः अस्ति। मातुः दुर्गायाः कृपया सर्वेषां जीवनम् उन्नतिं कल्याणं च प्राप्नुयात् इति तस्य मंगलकामना।
संस्कृतिपर्यटनमन्त्री गजेन्द्र सिंह शेखावत उक्तवान् यत् माता भगवती सर्वेभ्यः भक्तेभ्यः बलं बुद्धिं सुखं संपन्नतां च ददातु इति तस्य कामना अस्ति।
------------
हिन्दुस्थान समाचार