Enter your Email Address to subscribe to our newsletters

नवदेहली, 19 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य चैत्रनवरात्रस्य आरम्भे देशवासिभ्यः शुभाशयान् प्रकटितवान्। सः कामनां कृतवान् यत् शक्तिस्वरूपायाः मातुः दुर्गायाः असीमकृपय्या सर्वेषां कल्याणं भवतु तथा च 'विकसितभारतस्य' अस्माकं संकल्पाय अपि नवीना ऊर्जा प्राप्यताम्।
प्रधानमन्त्री मोदी 'एक्स' इत्यत्र अलिखत्, सम्पूर्णदेशस्य मम परिवारजनेभ्यः नवरात्रस्य हार्दिकाः मङ्गलकामनाः। शक्तेः आराधनायाः अयं दिव्यः अवसरः युष्मभ्यं सर्वेभ्यः सुखं, सौभाग्यं, समृद्धिं, उत्तमस्वास्थ्यं च आनयतु। शक्तिस्वरूपायाः मातुः दुर्गायाः असीमकृपया सर्वेषां मङ्गलं भवतु, येन विकसितभारतस्य अस्माकं संकल्पाय अपि नवीना शक्तिः प्राप्यताम्। जय अम्बे जगदम्बे मातः।
सः अन्यस्मिन् एकस्मिन् सन्देशे संस्कृतसुभाषितं साझां कुर्वन् नवरात्रविषये अवदत्, नवरात्रस्य प्रथमे दिने मातुः दुर्गायाः प्रथमस्वरूपस्य देवीशैलपुत्र्याः पूजनस्य विधानम् अस्ति। तस्याः आशीर्वादैः सर्वेषां जीवने संयमस्य, शान्तेः, सकारात्मक-ऊर्जायाः च सञ्चारः भवतु, इत्येव मम कामना।
तेन लिखितम्, वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्। वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्॥ सुभाषितानुसारम्— या भक्तानां सर्वाः इच्छाः पूरयति, यस्याः मस्तके अर्धचन्द्रः सुशोभितः अस्ति, या वृषभे आरूढा अस्ति, हस्ते च त्रिशूलं धारयति, तां यशस्विनीं देवीशैलपुत्रीं अहं वन्दे।
प्रधानमन्त्री मोदी एकं भजनम् अपि साझां कृतवान्। सः अलिखत्, जगतजनन्याः मातुः दुर्गायाः चरणेषु कोटि-कोटि देशवासिनां पक्षतः मम नमनं वन्दनं च। नवरात्रस्य पावने पर्वणि देवीमातरं प्रति इयं प्रार्थना अस्ति यत् सा सर्वेभ्यः स्वस्नेहस्य अनुकम्पायाः च आशीर्वादं ददातु। जय माता दी।
अस्मिन् अन्तरे प्रधानमन्त्री मोदी नवसंवत्सरस्य अवसरे अपि देशवासिभ्यः शुभकामनाः दत्तवान्। सः अलिखत्, देशवासिभ्यः नवसंवत्सरस्य अनन्ताः शुभकामनाः। मम कामना अस्ति यत् इदं नववर्षं युष्माकं सर्वेषां जीवने साहसं, आत्मविश्वासं, सेवाभावं च अधिकं सशक्तं करोतु, यत् राष्ट्रनिर्माणस्य प्रयासेभ्यः अपि नवीनां दृढतां दद्यात्।
सः 'गुढी पाडवा' इत्यस्यापि शुभकामनाः प्रादात्। प्रधानमन्त्री मोदी अलिखत्, गुढी पाडवा इत्यस्य पावन-अवसरे युष्मभ्यं सर्वेभ्यः हार्दिकाः शुभकामनाः। अयं सुन्दरः उत्सवः नववर्षस्य आगमनस्य प्रतीकः अस्ति, यः स्वसह नवीनां ऊर्जाम्, आशां, नूतनावसराणां सन्देशं च आनयति। कामना अस्ति यत् आगामि-वर्षं युष्माकं सर्वेषां कृते प्रसन्नताभिः, सफलताभिः, उत्तमस्वास्थ्येन च परिपूर्णं भवेत्। इदं अस्माकं सर्वेषां कृते अटूटसंकल्पेन सह अग्रे वर्धितुम्, स्वआकाङ्क्षाः परिष्कर्तुं, सार्थकयोगदानं दातुं च प्रेरणां ददातु।
---------------
हिन्दुस्थान समाचार