राष्ट्रपतिः श्रीराम जन्मभूमि मंदिरे स्थापितवान् श्रीराम यंत्रम्
श्रीराम यंत्रस्य स्थापनया सह श्रीराम जन्मभूमि मंदिरं संजातं इतिहासस्य साक्षी अयोध्या, 19 मार्चमासः (हि.स.)। उत्तरप्रदेशराज्ये अयोध्या नगरे प्रभोः श्रीरामस्य पवित्रायां नगरी, श्रीरामजन्मभूमौ भव्यस्य मन्दिरस्य निर्माणसमाप्तौ, चैत्रनवरात्रेः प
राष्ट्रपति द्रौपदी मुर्मु श्रीराम लला मंदिर में पूजन करते हुए


श्री राम लला मंदिर में स्थापित श्री राम यंत्र


श्रीराम यंत्रस्य स्थापनया सह श्रीराम जन्मभूमि मंदिरं संजातं इतिहासस्य साक्षी

अयोध्या, 19 मार्चमासः (हि.स.)।

उत्तरप्रदेशराज्ये अयोध्या नगरे प्रभोः श्रीरामस्य पवित्रायां नगरी, श्रीरामजन्मभूमौ भव्यस्य मन्दिरस्य निर्माणसमाप्तौ, चैत्रनवरात्रेः प्रथमदिने तथा सनातननवसंवत्सरे (विक्रमसंवत् २०८३) पावनावसरे राष्ट्रपतिः द्रौपदी मुर्मु अत्र श्रीरामयन्त्रस्य स्थापना अकुर्वत्।

एतत् श्रीरामयन्त्रं जन्मभूमिमन्दिरस्य द्वितीयतले गर्भगृहे अभिजित्मुहूर्ते वैदिकाचार्यैः मन्त्रुच्चारणपूर्वकं विधिवत् पूजाअर्चनया सह स्थापितम्।

राष्ट्रपतिः मुर्मु महोदया श्रीराममन्दिरं प्राप्य प्रथमं प्रभोः श्रीरामललस्य दर्शनं कृत्वा पूजां आरतीं च अकरोत्, ततः परं “श्रीरामयन्त्र” स्थापनाविधानं सम्पन्नम्। समग्रेण विधिविधानपूर्वकेण श्रीरामयन्त्रस्य स्थापनया श्रीरामजन्मभूमिमन्दिरनिर्माणं नूतनस्य इतिहासस्य साक्षी अभवत्। श्रीरामयन्त्रस्य स्थापनानन्तरं सम्पूर्णे मन्दिरपरिसरे “जय श्रीराम” इति घोषः निनादितः।

अस्मिन् अवसरे श्रीरामजन्मभूमिसमितेः महासचिवः चम्पतरायः, केरळप्रदेशात् आगता माता अमृतानन्दमयी, उत्तरप्रदेशस्य राज्यपालः आनंदीबेन पटेल, मुख्यमन्त्री योगी आदित्यनाथ, ट्रस्टस्य कोषाध्यक्षः गोविन्ददेवगिरिः, पूज्याः साधुसन्ताः तथा देशविदेशेभ्यः आगताः सप्तसहस्राधिकाः गणमान्याः उपस्थिताः आसन्।

उल्लेखनीयम् अस्ति यत् राष्ट्रपतिः द्रौपदी मुर्मु गुरुवासरात् आरभ्य उत्तरप्रदेशस्य त्रिदिवसीय आध्यात्मिकदौरे सन्ति। अस्य क्रमस्य अन्तर्गतं सा अद्य प्रथमं अयोध्यां प्राप्तवती। अत्र महर्षिवाल्मीकि-विमानतले राज्यपालः आनंदीबेन पटेल तथा मुख्यमन्त्री योगी आदित्यनाथ तस्याः स्वागतं कृतवन्तौ। ततः सा श्रीरामजन्मभूमिमन्दिरं गता।

अयोध्यायां कार्यक्रमसमाप्तेः अनन्तरं राष्ट्रपतिः मथुरा नगरं प्रति प्रस्थितवती, यत्र सा वृन्दावने बांके बिहारी मंदिर मन्दिरे दर्शनपूजनं करिष्यति। अनन्तरं मार्चमासस्य विंशतितमे दिने सा सन्तं प्रेमानन्दमहाराजं मिलित्वा अन्येषु आध्यात्मिकदर्शनस्थलेषु अपि भ्रमणं करिष्यति।राष्ट्रपतेः उत्तरप्रदेशभ्रमणे सुरक्षा व्यवस्था अत्यन्तं सुदृढा कृता अस्ति।

---------

हिन्दुस्थान समाचार