दिल्ल्यां तरुण हत्याकांडप्रकरणे राहुल गांधी अकरोत् भ्रातृत्वं स्थापयितुम् आह्वानम्
नव दिल्ली, 19 मार्चमासः (हि.स.)।दिल्लीनगरस्य उत्तमनगरक्षेत्रे होलीपर्वणि २६ वर्षीय तरुण खटीकस्य हत्याकाण्डस्य विषये काङ्ग्रेसदलस्य पूर्वाध्यक्षः लोकसभायां विपक्षनेता राहुल गांधी जनान् आवेदयत् यत् ते भ्रमणकारिणां वचनेषु न आगच्छेयुः, अपि तु परस्परं भ
राहुल गांधी


नव दिल्ली, 19 मार्चमासः (हि.स.)।दिल्लीनगरस्य उत्तमनगरक्षेत्रे होलीपर्वणि २६ वर्षीय तरुण खटीकस्य हत्याकाण्डस्य विषये काङ्ग्रेसदलस्य पूर्वाध्यक्षः लोकसभायां विपक्षनेता राहुल गांधी जनान् आवेदयत् यत् ते भ्रमणकारिणां वचनेषु न आगच्छेयुः, अपि तु परस्परं भ्रातृत्वं सौहार्दं च धारयेयुः।

राहुलः गुरुवासरे एक्स इति माध्यमे लिखित्वा उक्तवान् यत् उत्तमनगरस्य जनाः हिंसायाः महान् मूल्यं अदा। एकस्मिन् पक्षे एकः युवा तरुणः जीवनं त्यक्तवान्, अपरस्मिन् पक्षे सम्पूर्णं कुटुम्बं उत्पीडनं सहते।

सः उक्तवान् यत् जनाः पुनः रक्तपातं न इच्छन्ति। द्वेषप्रचारकाः इच्छन्ति यत् देशः हिन्दू मुस्लिम विषयेषु एव निमग्नः भवेत्, येन जनाः अन्यान् प्रश्नान् न पृच्छेयुः। तेन जनान् सः पुनः आवेदयत् यत् ते कस्यचित् बहकावे न आगच्छेयुः।

देशस्य शक्ति: अस्माकं एकता भ्रातृत्वं प्रेम च अस्ति। सः उक्तवान् “जोडो जोडो भारत जोडो।”

-------------

हिन्दुस्थान समाचार