सनातन परंपरायाः पुनर्जागरणस्य ऐतिहासिकं क्षणम्, अयोध्यायां रामनवम्यां भविष्यति 1251 कुण्डीयमहायज्ञः
२० मार्चतः २८ मार्चपर्यन्तं रामनगरी सनातनधर्मस्य वैश्विककेन्द्ररूपेण भविष्यति। आध्यात्मिकमहाशक्तिरूपेण भारतः सनातनपरम्परायाः बलात् पुनः विश्वगुरुः भविष्यति इति दयाशंकरसिंहः अवदत्। अयोध्या, १९ मार्च (हि.स.)। भगवतः श्रीरामस्य जन्मभूमिः अयोध्या पुन
राम मंदिर।


२० मार्चतः २८ मार्चपर्यन्तं रामनगरी सनातनधर्मस्य वैश्विककेन्द्ररूपेण भविष्यति।

आध्यात्मिकमहाशक्तिरूपेण भारतः सनातनपरम्परायाः बलात् पुनः विश्वगुरुः भविष्यति इति दयाशंकरसिंहः अवदत्।

अयोध्या, १९ मार्च (हि.स.)।

भगवतः श्रीरामस्य जन्मभूमिः अयोध्या पुनः एकवारं इतिहासस्य स्वर्णिमक्षणानां साक्षिणी भविष्यति। अत्र २० मार्चतः २८ मार्चपर्यन्तं १२५१ कुण्डीयः श्रीलक्ष्मीनारायणमहायज्ञः सह हनुमत्श्रीराममहायज्ञः भविष्यति। अयं यज्ञः केवलं धार्मिकः आयोजनः न, अपितु वैदिकपरम्परायाः सनातनसंस्कृतेः च पुनरुत्थानस्य प्रतीकः अपि भविष्यति।

आयोजनस्य संयोजकः महायज्ञसमितेः अध्यक्षः तथा उत्तरप्रदेशसरकारस्य परिवहनमन्त्री दयाशंकरसिंहः अवदत् यत् अयं महायज्ञः केवलं धार्मिकानुष्ठानं न, अपितु भारतीयसंस्कृतेः वैश्विकसन्देशस्य पुनर्स्थापनाय एकः प्रयासः अस्ति। तेन उक्तं यत् अयोध्यायाः पावनभूमेः उद्गच्छन्ती आस्थायाः ध्वनिः समग्रे विश्वे सनातनमूल्यानि प्रसारयिष्यति।

रामनवमीपर्वणि भगवतः श्रीरामस्य जन्मोत्सवः वैदिकविधिना उत्सवपूर्वकं आयोज्यते। अस्मिन् समये भजनकीर्तनानि, सन्तानां प्रवचनानि तथा धार्मिककथाः सम्पूर्णं वातावरणं भक्तिमयं करिष्यन्ति। सनातनपरम्परायाः बलात् आध्यात्मिकमहाशक्तिरूपेण भारतः पुनः विश्वगुरुः भविष्यति।

वस्तुतः अयोध्यायां आयोजितः अयं महायज्ञः केवलं आयोजनं न, अपितु सा सनातनपरम्परा अस्ति या भारतं युगान्तराणि यावत् आध्यात्मिकविश्वगुरुरूपेण स्थापयामास। अधुना पुनः रामनगरीतः सा एव ज्योतिः प्रज्वलिता भविष्यति या आस्था, संस्कृति तथा मानवतायाः मार्गं प्रकाशयिष्यति।

उल्लेखनीयम् अस्ति यत् रामनवमीपर्वे सह आयोजितः अयं महोत्सवः तां गौरवशालीं परम्परां पुनर्जीवयिष्यति, यदा यज्ञः, तपः तथा भक्ति भारतस्य आत्मा आसन्। १२५१ कुण्डेषु एकत्र समर्पिताः आहुतयः समग्रं वातावरणं वैदिकमन्त्रैः निनादयिष्यन्ति, यथा त्रेतायुगस्य स्मृतयः पुनः सजीवाः भवन्ति।

अनेन महोत्सवेन सह श्रीरामानुजाचार्यस्य सहस्त्राब्दी-जयंती-महोत्सवः अपि आयोज्यते, यस्य उपदेशाः भारतीयभक्तिआन्दोलनस्य नूतनदिशां दत्तवन्तः तथा समाजे भक्ति-समर्पण-समरसतायाः सन्देशं प्रसारितवन्तः।

महायज्ञे मुख्यतया लक्ष्मीप्रपन्नजीयरस्वामिनः पावनसन्निधिः भविष्यति। तेषां सान्निध्ये वैदिकानुष्ठानानि, कथा-प्रवचनानि तथा गुरुपरम्पराया वन्दनं श्रद्धालून् सनातनधर्मस्य गाम्भीर्येण संयोजयिष्यति।

हिन्दुस्थान समाचार