लिपुलेख-दर्रातः पुनः प्रारप्स्यते भारत-चीन-सीमाव्यापारः, प्रशासनेन सज्जाः तीव्रीकृताः
पिथौरागढ़म्, 19 मार्चमासः (हि.स.)। उत्तराखण्डस्य पिथौरागढ-मण्डले वर्ष २०२६ कृते भारत-चीन-सीमाव्यापारं पुनः आरब्धुं प्रशासनेन सज्जाः तीव्रीकृताः सन्ति। व्यापारस्य अवधिः जूनमासतः सितम्बरमासपर्यन्तं निर्धारिता अस्ति। जिलाधिकारी-आशीषकुमारभटगांई-महोदयस
जिलाधिकारी आशीष कुमार भटगांई की अध्यक्षता में भारत–चीन सीमा व्यापार को वर्ष 2026 में पुनः प्रारम्भ की तैयारियों को लेकर बैठक।


पिथौरागढ़म्, 19 मार्चमासः (हि.स.)।

उत्तराखण्डस्य पिथौरागढ-मण्डले वर्ष २०२६ कृते भारत-चीन-सीमाव्यापारं पुनः आरब्धुं प्रशासनेन सज्जाः तीव्रीकृताः सन्ति। व्यापारस्य अवधिः जूनमासतः सितम्बरमासपर्यन्तं निर्धारिता अस्ति। जिलाधिकारी-आशीषकुमारभटगांई-महोदयस्य अध्यक्षतायां मण्डल-आपदा-परिचालन-केन्द्रस्य सभागारे आयोजितायां गोष्ठ्यां विविधविभागानाम् अधिकारिभिः सह सज्जानां विस्तृता समीक्षा कृता।

​जिलाधिकारी उक्तवान् यत् विदेशमन्त्रालयेन लिपुलेख-दर्रामार्गेण सीमाव्यापारं पुनः आरब्धुम् 'अनापत्ति-प्रमाणपत्रम्' प्रदत्तम् अस्ति। एतदर्थं प्रस्तावित-व्यापारसत्र-२०२६ इत्यस्य सुचारुरूपेण सञ्चालनाय सर्वाः आवश्यकीः व्यवस्थाः समयबद्धरूपेण पूर्णं कर्तुं निर्देशाः दत्ताः। अधिकारिभ्यः सूचितं यत् भारत-चीन-सन्धि-अन्तर्गतं व्यापारस्य अवधिः जूनमासतः सितम्बरमासपर्यन्तं निर्धारिता अस्ति। तथापि ऋतु-अनुकूलतायाः आधारेण अस्याः अवधेः वर्धनाय प्रस्तावः शासनाय प्रेषयितुं शक्यते।

​जिलाधिकारी सर्वान् विभागान् निर्देशितवान् यत् व्यापारस्य प्रारम्भात् पूर्वम् आधारभूतसंरचना, मार्गः, सञ्चारः, बैङ्किङ्ग-सुरक्षा-आवासीयव्यवस्थाश्च पूर्णाः क्रियन्ताम्। बीएसएनएल-संस्थां सीमाक्षेत्रे सञ्जालं सुदृढं कर्तुं तथा च गुञ्जीक्षेत्रे प्रक्षालनगृहादीनां सुविधानां विकासाय निर्देशाः दत्ताः। गोष्ठ्यां अन्तर्राष्ट्रियव्यापार-पर्यटनकार्यालयस्य सञ्चालनाय स्थानीयस्तरे संविदाकर्मिणां नियुक्तिः तथा च व्यापारावधौ पीआरडी-स्वयंसेवकानां सुरक्षाकर्मिणां च तैनातीविषये कार्ययोजनायाः चर्चा अभवत्।

​उप-जिलाधिकारी (धारचूला) आशीष जोशी उक्तवान् यत् पूर्ववर्षाणाम् इव अस्मिन् वारे अपि व्यापारिभ्यः 'ट्रेड-पास' (व्यापारपत्रं) प्रदास्यते। गतवारे २६५ व्यापारपत्राणि निर्गतानि आसन्, अस्मिन् वर्षे एषा संख्या वर्धिष्यते इति सम्भावना वर्तते।

​अपर-जिलाधिकारी योगेन्द्र सिंहः जानकारीं दत्तवान् यत् व्यापारावधौ धारचूलाक्षेत्रे भारतीयस्टेटबैङ्क-माध्यमेन नकद-मुद्राविनिमय-सुविधा उपलब्धा भविष्यति। सहैव सीमाशुल्कविभागात् (बरेलीतः) अधिकारिणां समये तैनातीं सुनिश्चितं कर्तुं निर्देशाः दत्ताः। गोष्ठ्यां सूचितं यत् आयाते ऊर्णं, पश्मीना, लवणं, बोरेक्स, रेशमम्, नवनीतं, चमरीमृगस्य रोमाणि चर्माणि च इत्यादयः वस्तूनि सम्मिलितानि सन्ति। निर्याते तु वस्त्राणि, कम्बलानि, उपस्कराः, चूर्णम्, शुष्कफलानि, शाकानि, ताम्रस्य उत्पादाः, कृषियन्त्राणि, लेखनसामग्री, पादरक्षाः, वनस्पति-तैलं च सम्मिलितानि भविष्यन्ति। गते व्यापारसत्रे प्रायः १.२५ कोटिरूप्यकाणां निर्यातं तथा च १.९० कोटिरूप्यकाणाम् आयातम् अभवत्।

​अस्यां गोष्ठ्यां आरक्षक-अधीक्षकः अक्षयकोण्डे, मुख्य-पशुचिकित्साधिकारी डॉ. योगेश शर्मा, डिप्टी सीएमओ डॉ. प्रशान्त कौशिकः, एआरटीओ शिवांश काण्डपालः, मण्डल-युवकल्याण-अधिकारी जगदीश नेगी, मण्डल-पर्यटन-विकास-अधिकारी कीर्ति आर्या इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार