छत्तीसगढ़स्य राजधानी रायपुरे अस्मिन् पर्याये 200तः अधिकाः होलीसमारोहाः
रायपुरम्, 02 मार्चमासः (हि.स.)।राजधानीनगर्यां होलीपर्वणः अवसरे शान्तिव्यवस्थां सुदृढां कर्तुं पुलिसप्रशासनेन विस्तृतः योजना निर्मिता अस्ति। अस्मिन् वर्षे रायपुरनगरे द्विशताधिकाः होलीउत्सवकार्यक्रमाः भविष्यन्ति। अतिरिक्तम् “मुंज्या” इति विषयाधारिताय
राजधानी रायपुर के कालीबाड़ी चौक पर फिल्म ‘मुंज्या’ की थीम पर आधारित होलिका की मूर्ति


रायपुरम्, 02 मार्चमासः (हि.स.)।राजधानीनगर्यां होलीपर्वणः अवसरे शान्तिव्यवस्थां सुदृढां कर्तुं पुलिसप्रशासनेन विस्तृतः योजना निर्मिता अस्ति। अस्मिन् वर्षे रायपुरनगरे द्विशताधिकाः होलीउत्सवकार्यक्रमाः भविष्यन्ति। अतिरिक्तम् “मुंज्या” इति विषयाधारितायाः होलिकामूर्तेः अपि विशेषः चर्चा प्रवर्तते।

राजधानी रायपुरे मार्चमासस्य तृतीये चतुर्थे च दिने अधिकतमाः कार्यक्रमाः आयोज्यन्ते। तस्मात् नगरस्य होटेल् पैलेस् हाल् रिसॉर्ट् इत्यादयः सर्वे पूर्वमेव आरक्षिताः सन्ति। एतेषु कार्यक्रमेषु पुलिसस्य तीक्ष्णा दृष्टिः अपि भविष्यति।

होलीपर्वणः निमित्तं पुलिसविभागेन दृढाः सुरक्षोपायाः स्वीकृताः। विभागीयसूचनानुसारं नगरे सप्तशतं पुलिसबलं नियुक्तं भविष्यति। प्रत्येकस्मिन् अर्धकिलोमीटराधिके अन्तरे पुलिसपरिभ्रमणयानं व्यवस्थितं भविष्यति। वीथीषु मोहल्लेषु च द्विचक्रिकायानपेट्रोलिङ्गदलानि गस्तं करिष्यन्ति। समग्रं नगरं ड्रोनयन्त्रैः निरीक्ष्यते। यदि कश्चन उपद्रवः विवादः वा जायते तर्हि शीघ्रप्रतिक्रियादलं त्वरितम् कार्यं करिष्यति। सर्वे डीसीपी एसीपी थाना प्रभारी च परिभ्रमणकार्ये संलग्नाः भविष्यन्ति। नगरस्य पञ्चाशत्सु प्रमुखचतुष्पथेषु स्थिरपरीक्षणकेन्द्राणि स्थापितानि सन्ति।

यातायातपुलिसेन नगरे षष्ट्यधिकानि परीक्षणकेन्द्राणि निर्मितानि। यातायातविभागस्य पञ्चशतं जवानाः मुख्यचतुष्पथसु नियुक्ताः भविष्यन्ति। विशेषदृष्टिः मद्यपानकृत्वा वाहनचालनकर्तृषु तीव्रवेगद्विचक्रिकाचालकेषु तथा त्रिसवारीणां गमनकर्तृषु भविष्यति। यदि ते गृहीयन्ते तर्हि वाहनं प्रत्यक्षं थानायां जप्तं भविष्यति चालकश्च पादचारिणा एव गृहम् गन्तव्यः भविष्यति।

अस्मिन् प्रसङ्गे नगरस्य प्रसिद्धे कालीबाडीचतुष्पथे वर्षे २०२४ प्रकाशितायाः भयचित्रपटस्य “मुंज्या” इति विषयाधारिताया होलिकामूर्तिः जनानाम् आकर्षणं करोति। “मुंज्या” विषयेन निर्मितायाः अस्याः मूर्तेः समीपे चित्रपटस्य प्रसिद्धपात्राणां दृश्यतापि दृश्यते।

हिन्दुस्थान समाचार