छत्तीसगढ़ राज्य महिला आयोगस्य 8 तः 13 मार्च यावत् महाजनश्रवणगोचरतासप्ताहः
रायपुरम्, 02 मार्चमासः (हि.स.)। छत्तीसगढराज्यस्य महिलाआयोगेन अन्तरराष्ट्रीयमहिलादिवसस्य अवसरि प्रदेशस्य महिलानां सशक्तीकरणाय तासां दीर्घकालपर्यन्तं लंबितप्रकरणानां शीघ्रनिराकरणाय च एकः महत्त्वपूर्णः अभियानः आरभ्यते। आगामिनि ०८ मार्चतः १३ मार्च २
छत्तीसगढ़ राज्य महिला आयोगस्य 8 तः 13 मार्च यावत् महाजनश्रवणगोचरतासप्ताहः


रायपुरम्, 02 मार्चमासः (हि.स.)।

छत्तीसगढराज्यस्य महिलाआयोगेन अन्तरराष्ट्रीयमहिलादिवसस्य अवसरि प्रदेशस्य महिलानां सशक्तीकरणाय तासां दीर्घकालपर्यन्तं लंबितप्रकरणानां शीघ्रनिराकरणाय च एकः महत्त्वपूर्णः अभियानः आरभ्यते।

आगामिनि ०८ मार्चतः १३ मार्च २०२६ पर्यन्तं प्रदेशस्य सर्वेषु ३३ जिल्लेषु “महाजनसुनवाईसप्ताह” इत्यस्य आयोजनं भविष्यति। महिलानां शिकायतानां स्थानीयस्तरे एव त्वरितसमाधानं क्रियते। घरेलूहिंसा उत्पीडनम् अन्यानि च महिलासम्बद्धप्रकरणानि प्राधान्येन श्रोतुं निर्णेतुं च गृहीतानि भविष्यन्ति। अस्य उपक्रमस्य उद्देश्यः अस्ति यत् महिलाभ्यः न्यायार्थं भ्रमणं न कर्तव्यं भवेत् अपितु जिलास्तरे एव प्रभावी समाधानं लभ्येत।

अस्मात् जिलास्तरीयमहाजनसुनवायाः माध्यमेन महिलाभ्यः स्वीयस्थानीयस्तरे एव कानूनीसहायता शिकायतानां समाधानं च प्राप्स्यते येन कालधनयोः उभयोः अपि संरक्षणं भविष्यति।

अस्य आयोजनस्य सिद्धतासम्बन्धे आयोगस्य अध्यक्षा डा० किरणमयी नायक इत्यनया ऑनलाइनसमीक्षासभा आयोजित्य कठोरनिर्देशाः प्रदत्ताः। तया उक्तं यत् ८ मार्च अन्ताराष्ट्रियमहिलादिवसात् आरभ्यमाणस्य अस्य सप्ताहस्य कालावधौ प्रत्येकस्मिन् जिल्ले निर्धारितस्थानेषु आयोगस्य दलं गमिष्यति। पीडिताः महिलाः स्वीयैः लंबितप्रकरणैः नूतनशिकायताभिः वा सह एतेषु शिविरेषु प्रत्यक्षतया उपस्थित्य स्वपक्षं प्रस्तोतुं शक्नुवन्ति।

हिन्दुस्थान समाचार