Enter your Email Address to subscribe to our newsletters

लखनऊ, 02 मार्चमासः (हि.स.)। उत्तर-प्रदेश-विधानसभा-अध्यक्षः सतीशमहाना रंग-पावन-पर्व-होल्यवसरे प्रदेशवासिभ्यः हार्दिक-शुभकामनाः अभिनन्दनं च प्रदत्तवान्।स्वीय-सन्देशे तेन उक्तं यत् होली भारतीय-संस्कृतेः महत्त्वपूर्णं सजीवं च पर्व अस्ति, यः प्रेम सौहार्द सामाजिक-समरसता परस्पर-भ्रातृत्वस्य च प्रतीकः अस्ति। एषः उत्सवः अस्मान् परस्पर-मतभेदान् कटुतां च विस्मृत्य अन्योन्यं प्रति सद्भाव सहयोग अपनत्व-भावनां च सुदृढीकर्तुं प्रेरयति।
तेन उक्तं यत् होली-पर्वः अस्माकं समृद्ध-सांस्कृतिक-परम्पराणां परिचायकः अस्ति। एषः समाजे सकारात्मक-ऊर्जायाः सञ्चारं करोति, सर्वान् वर्गान् एकसूत्रे संयोजयति। तादृशे अवसरे सामाजिक-एकता पारस्परिक-सम्मान सामंजस्यं च अधिकं सुदृढीकर्तुं संकल्पः करणीयः।
विधानसभा-अध्यक्षेन प्रदेशवासिभ्यः आह्वानं कृतं यत् ते होली-उत्सवं शान्त्या सौहार्देन उत्तरदायित्वेन च आचरन्तु, प्राकृतिक-रङ्गानां उपयोगं कुर्वन्तु। तेन उक्तं यत् उत्सवानां वास्तविक-भावना तदा एव सार्थका भवति, यदा वयं परस्पर-भावनानां सम्मानं कृत्वा उल्लासेन पर्व मन्यामहे।
श्री-महाना कामनाम् अकरोत् यत् एषः पावन-पर्वः सर्वेषां जीवनं सुख समृद्धि उत्तम-स्वास्थ्य नूतन-ऊर्जा च पूरयेत्, अस्माकं प्रदेशः निरन्तरं विकास शान्ति प्रगति-पथे अग्रसरः भवतु।-------------
हिन्दुस्थान समाचार