Enter your Email Address to subscribe to our newsletters

शिमला, 02 मार्चमासः (हि.स.)।
मुख्यमन्त्री ठाकुरसुखविन्द्रसिंहसुक्खूः स्वतंत्रतासेनान्याः तथा भारतीयराष्ट्रियकाङ्ग्रेसस्य प्रथममहिलाध्यक्षायाः सरोजिनीनायडू पुण्यतिथौ ताभ्यः सादरं नमनं कृतवान्।
मुख्यमन्त्री स्वसंदेशे अवदत् यत् स्वतंत्रतासंग्रामे तासां योगदानम् अतुलनीयम् आसीत्। ताभिः देशस्य स्वाधीनतायाः संग्रामे महत्त्वपूर्णा भूमिका निर्वहिता तथा महिलानां जागरणाय सशक्तीकरणाय च उल्लेखनीयाः प्रयासाः कृताः।
सः उक्तवान् यत् सरोजिनीनायडूयाः जीवनं देशभक्तेः सामाजिकचेतनायाः तथा महिलासशक्तीकरणस्य प्रेरणास्रोतः अस्ति। स्वतंत्रतासंग्रामे तासां योगदानं तथा महिलानां जागरणाय कृताः प्रयासाः सदा आदरेण स्मरिष्यन्ते।
---------------
हिन्दुस्थान समाचार