पेंटागने रक्षा मंत्री हेगसेथस्य शक्तसंदेशः- ‘वयं युद्धं न शुभारब्धवन्तः , परं समाप्तिं वयं करिष्यामहे’
वॉशिंगटनम् , 02 मार्चमासः (हि.स.)। अमेरिकादेशस्य रक्षामन्त्री पीट हेगसेथ ईरानदेशस्य विरुद्धं प्रवर्तमानस्य सैन्य-अभियानस्य विषये दृढं मतम् अभ्यधात्— “वयं एतत् युद्धं न आरब्धवन्तः, किन्तु डोनाल्ड ट्रंप-नेतृत्वे वयं तस्य समापनं कुर्मः।” इति। पेंटा
‘हमने युद्ध शुरू नहीं किया, लेकिन इसे खत्म करेंगे’ - पेंटागन में रक्षा मंत्री हेगसेथ का सख्त संदेश


वॉशिंगटनम् , 02 मार्चमासः (हि.स.)।

अमेरिकादेशस्य रक्षामन्त्री पीट हेगसेथ ईरानदेशस्य विरुद्धं प्रवर्तमानस्य सैन्य-अभियानस्य विषये दृढं मतम् अभ्यधात्— “वयं एतत् युद्धं न आरब्धवन्तः, किन्तु डोनाल्ड ट्रंप-नेतृत्वे वयं तस्य समापनं कुर्मः।” इति।

पेंटागन-स्थले आयोजितायां पत्रकार-परिषद् हेगसेथः आरोपितवान् यत् गत ४७ वर्षेषु ईरानी-शासनं अमेरिकादेशस्य विरुद्धं “एकपक्षीयं हिंसात्मकं युद्धं” प्रचालयति। तेन बेरूत-नगरे कार-विस्फोटान्, अमेरिकी-दूतावासेषु आक्रमणानि, इराक तथा अफगानिस्तान-देशयोः मार्ग-पार्श्व-विस्फोटानां उल्लेखः कृतः। तेन उक्तं यत् अधुना अमेरिका निर्णायक-कार्यवाहीं करोति।

तेन अपि उक्तं यत् ईरानः प्रक्षेपास्त्रैः ड्रोन-यानैः च “परमाणु-भीषण-रणनीतिं” प्रसरयन् स्वस्य परमाणु-कार्यक्रमं पुनर्जीवयितुं प्रयत्नशीलः आसीत्। हेगसेथस्य कथनानुसारं जून-मासे सम्पन्ने १२-दिवसीये इजराइल-ईरान-युद्धे अनन्तरं अमेरिका तेहरानं प्रति चेतावनीं दत्तवान् यत् यदि परमाणु-कार्यक्रमः पुनरारभ्येत तर्हि “अत्यन्त-गम्भीर-परिणामाः” भविष्यन्ति।

रक्षामन्त्री अवदत् यत् “ऑपरेशन एपिक फ्यूरी” इत्याख्यस्य अभियाने अमेरिकी-रणनीतिः स्पष्टा अस्ति—ईरानस्य आक्रामक-प्रक्षेपास्त्र-क्षमता, प्रक्षेपास्त्र-उत्पादन-व्यवस्था, नौसेना-संरचना, सुरक्षा-तन्त्रं च विनाशयितुम्। तस्य दावः आसीत् यत् आक्रमणानि “सूक्ष्म-लक्षितानि व्यापकानि च अननुतापेन” क्रियन्ते।

‘शासन-परिवर्तन-युद्धं न’

हेगसेथः उक्तवान् यत् एतत् युद्धं शासन-परिवर्तनार्थं न, किन्तु घटनाक्रमैः स्थितिः परिवर्तिता। अद्यतन-सैन्य-अभियानेषु ईरानस्य शीर्ष-नेतृत्वस्य कतिपये सदस्याः, येषु सर्वोच्च-नेता अली खामेनेई अपि अन्तर्भूतः इति उक्तम्, निहताः। तेन ईरानी-जनतां प्रति “अस्य अवसरस्य लाभं गृह्णन्तु” इति आह्वानं कृतम्, यतः राष्ट्रपति ट्रंपः पूर्वमेव उक्तवान्— “इदानीं भवतां समयः।” तथापि तेन पुनरुक्तं यत् अमेरिकादेशस्य प्रत्यक्षं तेहरान-शासन-अपसारणं लक्ष्यं नास्ति।

सञ्चार-माध्यमेषु टिप्पणी च

पत्रकार-परिषद्-समये हेगसेथः सञ्चार-माध्यमानां आलोचनां कृत्वा उक्तवान् यत् एषः संघर्षः “इराक-इव अनन्त-युद्धं” नास्ति। तेन उक्तं यत् अमेरिका अस्य युद्धस्य शर्ताः निर्धारितवान्, अभियानं च सीमित-लक्ष्यैः सह प्रवर्तते। ईरानी-प्रतिआक्रमणेषु चतुर्थः अमेरिकी-सैनिकः अपि निधनं प्राप्तः इति तेन पुष्टि कृता। तेन उक्तं यद् “युद्धं सदा भीषणं भवति। ये चत्वारः अमेरिकी-सैनिकाः अस्माभिः नष्टाः, तेषां प्रति वयं श्रद्धाञ्जलिं दद्मः।”

पश्चिम-एशिया-प्रदेशे शीघ्रं परिवर्तमान-परिस्थितिषु अमेरिका-ईरानयोः मध्ये तनावः चरम-सीमां प्राप्तः अस्ति। अन्ताराष्ट्रिय-समुदायः व्यापक-संघर्ष-आशङ्कया संयमस्य आह्वानं करोति।

-------------------

हिन्दुस्थान समाचार