Enter your Email Address to subscribe to our newsletters

खूंटी स्थिते पलाश मार्ट इत्यस्मिन् सामान्यनागरिकेभ्यः उपलब्धं हर्बल गुलाल, कर्तुं शक्नुवन्ति क्रयणम्
खूंटी, 02 मार्चमासः (हि.स.)। होलिकोत्सवस्य अवसरे उपायुक्ताया आर्० रॉनिटा इत्यस्याः मार्गदर्शन-निर्देशनानुसारं झारखंड स्टेट लाइवलीहुड प्रमोशन सोसाइटी (जेएसएलपीएस) द्वारा आकर्षकः उपहार-संचयः सज्जीकृतः। जिला-कार्यक्रम-प्रबन्धकस्य नेतृत्वे सखी-मण्डलस्य दीद्यः उपायुक्तां समागत्य ताभ्यः ‘पलाश’ इति नाम्ना उपहार-संचयं समर्पितवन्त्यः।
अस्मिन् अवसरे उपायुक्तया सर्वेभ्यः होलिकोत्सवस्य हार्दिक-शुभकामनाः प्रदत्ताः। सा स्व-सहायता-समूहानां महिलानां प्रयासान् प्रशंस्य तेषां उत्पादानां अधिकाधिक-प्रोत्साहनस्य आवश्यकता इति उक्तवती। सखी-मण्डलस्य दीद्यः प्रखण्ड-स्तरे अपि पदाधिकारिभिः सह मिलित्वा ‘पलाश’ उपहार-संचयं तेषां हस्ते समर्पितवन्त्यः।
अस्मिन् विशेषे उपहार-संचये ‘पलाश’ ब्राण्ड-अन्तर्गताः विविध-गुणवत्ता-युक्ताः उत्पादाः सुशोभित-रूपेण संयोजिताः सन्ति। एषः संचयः स्थानीय-स्वसहायता-समूहानां परिश्रमस्य, आत्मनिर्भरत्वस्य, सृजनशीलतायाश्च प्रतीकः अस्ति। सः होलिकोत्सवस्य वर्णैः सह समृद्धेः, सहयोगस्य, आत्मविश्वासस्य च सन्देशं प्रसारयति।
सखी-मण्डलस्य दीद्यः अवदन् यत् अस्मिन् संचये समाविष्टाः होलि-प्राकृतिक-वर्णाः पुष्पेभ्यः शाकादिभ्यश्च निर्मिताः सन्ति, ये पूर्णतया सुरक्षिताः पर्यावरण-अनुकूलाश्च सन्ति। एते उत्पादाः बाजार-टाण्ड-खूँटी-समीपे स्थिते ‘पलाश-मार्ट’ इत्यत्र सामान्य-नागरिकानां कृते उपलब्धाः सन्ति।
---------------
हिन्दुस्थान समाचार