Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०२ मार्चमासः (हि.स.) —भारतीय–प्रौद्योगिकी–संस्थानम् (आई.आई.टी.) दिल्ली २१ मार्चमासे हौज–खास–परिसरे अन्तिमवर्ष–स्नातक–स्नातकोत्तर–छात्राणां कृते ‘अन्वेषणं इनोवेशन एण्ड एक्सप्लोरेशन अक्रॉस डिसिप्लिन्स’ इति कार्यक्रमं आयोजयिष्यति।
संस्थानस्य विवरणानुसारम्, अस्य कार्यक्रमस्य लक्ष्यं उच्च–शिक्षायाः इच्छुकछात्रेभ्यः संस्थानस्य प्रत्यक्ष–अनुभवस्य प्रदानं अस्ति। ‘अन्वेषण’कार्यक्रमे छात्राः परिसरे भ्रमणं कृत्वा प्राध्यापकैः सह संवादं कर्तुं सक्षमाः भविष्यन्ति।
अयं प्रयासः छात्रेभ्यः समये उचित–मार्गदर्शनं प्रदातुं उद्देश्यं करोति, यत् ते स्व-आजीविका–संबद्धान् निर्णयान् विवेकपूर्वकं कर्तुं शक्नुवन्ति। ‘अन्वेषण २०२६’ कार्यक्रमे पञ्जीकरणस्य अन्तिम–तिथि: १५ मार्चमास: निर्दिष्ट:। इच्छुकच्छात्राः निर्धारित–संदर्भ–सन्देश–लिंक-माध्यमेन पञ्जीकरणं कर्तुं शक्नुवन्ति।
अयं कार्यक्रमः आई.आई.टी. दिल्ली–ऑफिस ऑफ़ अकादमिक आउटरीच एण्ड न्यू इनिशिएटिव्स द्वारा #एक्सपीरियेंसलआईआईटीडी–प्रयत्नस्य अन्तर्गतं आयोज्यते।
अद्यतनतः एष: प्रयत्न: कोटा–नगरे आयोजिते ओपन–हाउस–कार्यक्रमे जेईई–अभ्यर्थिनः संस्थान–छात्रैः प्राध्यापकैः च संवादस्य प्रत्यक्ष–अवसरं लब्धवन्तः।
संस्थानं ६–७ जूनमासे दिल्ली, हैदराबाद च बंगलुरु–नगरयोः जेईई–एडवांस्ड–योग्यछात्रेभ्यः ओपन–हाउस-आयोजयितुं योजना–निर्मिता अस्ति। ५ जूनमासे ‘आईआईटीडी कॉलिंग’ इत्यस्मिन् अन्तर्जाल–सत्रे अपि आयोजनं भविष्यति।इत्यनेनैव शैक्षणिक–वर्षस्य २०२६–२७ (प्रथम–सेमेस्टर) कृते विदेशी–नागरिकाणां पीएच.डी. तथा स्नातकोत्तर–कार्यक्रमे प्रवेश–आवेदन–प्रक्रिया आरब्धा, यस्य अन्तिम–तिथि: ३० मार्च (सायं ४ वादने) निर्दिष्टा। भारतीय–अभ्यर्थिनां पीएच.डी., एम.टेक., एम.एस. (आर), एम.डिज., एम.पी.पी., एम.ए., एम.एससी. कार्यक्रमेषु प्रवेशाय आवेदन–पटलस्य उद्घाटनं मार्च–मासस्य तृतीय–सप्ताहे भविष्यति। अभ्यर्थिनः संस्थानस्य आधिकारिक–जालपृष्ठं नियमितं निरीक्ष्य प्रवेश–संबद्धं अद्यतनं प्राप्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani