प्रधानमंत्री बहरीरः अकरोत् आक्रमणानां निंदाम्, एकजुटता व्यक्तकृता
नव दिल्ली, 02 मार्चमासः(हि.स.)। पश्चिमास्यदेशे प्रवर्तमाने तनावपरिस्थितौ भारतस्य प्रधानमन्त्री नरेन्द्र मोदी सोमवासरे हमद बिन ईसा अल खलीफा इत्यनेन बहरीन्-राज्ञा सह दूरभाषयन्त्रेण संवादम् अकरोत्। सः बहरीन्-देशे अभवतां आक्रमणानां तीव्रनिन्दां कृत्व
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नव दिल्ली, 02 मार्चमासः(हि.स.)।

पश्चिमास्यदेशे प्रवर्तमाने तनावपरिस्थितौ भारतस्य प्रधानमन्त्री नरेन्द्र मोदी सोमवासरे हमद बिन ईसा अल खलीफा इत्यनेन बहरीन्-राज्ञा सह दूरभाषयन्त्रेण संवादम् अकरोत्। सः बहरीन्-देशे अभवतां आक्रमणानां तीव्रनिन्दां कृत्वा भारतस्य पक्षतः ऐक्यम् अभिव्यक्तवान्।

प्रधानमन्त्री सामाजिकमाध्यमे ‘एक्स’ इत्यत्र लिखितवान् यत् तस्य बहरीन्-नृपेण सह सार्थका उपयोगिनी च वार्ता अभवत्। सः उक्तवान्— “भारतं बहरीन्-देशे अभवतां आक्रमणानां निन्दां करोति, अस्मिन् कठिनकाले तत्रस्थजनैः सह दृढम् ऐक्येन तिष्ठति च।”

प्रधानमन्त्री बहरीन्-देशे निवसतां भारतीयसमुदायस्य कृते निरन्तरं प्रदीयमानस्य सहयोगस्य समर्थनस्य च कृते राजानं प्रति कृतज्ञताम् अपि प्रकटितवान्।

भारतं पुनरपि खाडी-प्रदेशे शान्तेः स्थैर्यस्य सुरक्षायाश्च संरक्षणस्य आवश्यकता अस्ति इति बलवद् अभ्यधात्।

-------------

हिन्दुस्थान समाचार