भारत-कनाडा व्यापक आर्थिक सहकारितासहमतये दास्यते अंतिमरूपम् - मोदी
नव दिल्ली, 02 मार्चमासः (हि.स.)।प्रधानमन्त्री नरेंद्रमोदी सोमवासरे अवदत् यत् भारत-कनाडयोः व्यापक-आर्थिक-सहकारिता-सहमतिः शीघ्रमेव अन्तिमरूपेण सम्पन्नः भविष्यति, उभे देशे द्विपक्षीय-व्यापारं पञ्चाशद्-अर्बुद-अमेरिकी-डॉलर-पर्यन्तं नेतुं प्रवर्तेते। भा
प्रधानमंत्री नरेनद्र मोदी सोमवार को भारत-कनाडा सीईओ फोरम को संबोधित करते हुए


नव दिल्ली, 02 मार्चमासः (हि.स.)।प्रधानमन्त्री नरेंद्रमोदी सोमवासरे अवदत् यत् भारत-कनाडयोः व्यापक-आर्थिक-सहकारिता-सहमतिः शीघ्रमेव अन्तिमरूपेण सम्पन्नः भविष्यति, उभे देशे द्विपक्षीय-व्यापारं पञ्चाशद्-अर्बुद-अमेरिकी-डॉलर-पर्यन्तं नेतुं प्रवर्तेते।

भारत-कनाडा-सीईओ-फोरम् इत्यस्य सभायां सम्बोधयन् प्रधानमन्त्री उक्तवान् यत् भारतः कनाडा च जीवन्-लोकतन्त्रे स्तः, विश्वस्य द्वे प्रमुखे अर्थव्यवस्थे स्तः, साझा-मूल्याधारिते समाजे च स्तः। लोकतन्त्रं विविधता विकासश्च अस्मान् स्वाभाविक-सहभागिनौ रूपेण अग्रे गन्तुं प्रेरयतः।

प्रधानमन्त्री उक्तवान् यत् अद्य भारतः विश्वस्य अतिवेगेन वर्धमाना प्रमुखा अर्थव्यवस्था अस्ति। अस्य परिवर्तनस्य पृष्ठे दृढा घरेलू-माङ्गा, युवा-जनसंख्या, व्यापक-निवेशः डिजिटल-प्रौद्योगिक्याः शक्तिश्च वर्तते। एतत् अस्माकं निरन्तरं प्रवर्तमाना ‘रिफॉर्म-एक्सप्रेस्’ इत्यस्य परिणामः अस्ति। नीति-सरलीकरणम्, उत्पादन-आधारित-प्रोत्साहन-योजना (पीएलआई), लॉजिस्टिक्स-आधुनिकीकरणम्, कर-संशोधनम् दिवाला-संशोधनं च माध्यमेन सर्वेषु क्षेत्रेषु ‘ईज-ऑफ-डूइंग-बिजनेस’ सुदृढीक्रियते।

सः अवदत् यत् केन्द्र-सर्वकारेण अस्मिन् वर्षे राजस्वे आधारभूत-संरचना-विकासाय १३०-अर्बुद-अमेरिकी-डॉलर-परिमितं अभूतपूर्वं विनियोगं कृतम्। नेशनल-इन्फ्रास्ट्रक्चर-पाइपलाइन-अन्तर्गतं १.३-ट्रिलियन-अमेरिकी-डॉलर-परिमिते निवेशे कार्यं प्रवर्तते। कनाडीय-पेन्शन्-निधयः भारतदेशे प्रायः १००-अर्बुद-अमेरिकी-डॉलर-परिमितं निवेशं कृतवन्तः, यत् गाढ-विश्वासस्य प्रतीकं वर्तते। सः कनाडीय-उद्योग-जगतः भारतस्य अवसंरचना-विकास-यात्रायां सहभागित्वं कर्तुं आह्वानम् अकरोत्।

प्रधानमन्त्री पञ्च प्रमुख-सहयोग-क्षेत्राणि निर्दिश्य अवदत् यत् स्वच्छ-ऊर्जा उभयोः देशयोः प्राधान्य-विषयः अस्ति। परमाणु-क्षेत्रे सहयोगः दीर्घकालीन-यूरेनियम-आपूर्ति-सम्झौताः च कृताः सन्ति। महत्त्वपूर्ण-खनिजेषु दृढा आपूर्ति-शृंखला निर्मातुं प्रयासाः क्रियन्ते। कनाडस्य नवाचार-क्षमता भारतस्य विस्तार-क्षमतया सह संयोज्य बैटरी-ऊर्जा-सञ्चय-क्षेत्रे उन्नतिः साध्या।

तेन उक्तं यत् कृत्रिम-बुद्धिमत्ता-क्षेत्रे संयुक्त-एआई-कम्प्यूट-कोरिडोरः स्टार्टअप्स-निमित्तं एआई-इनोवेशन-सैंडबॉक्स् च स्थापयितुं शक्येते। विनिर्माण-प्रौद्योगिकी-क्षेत्रे विशेषतः इलेक्ट्रॉनिक्स् एयरोस्पेस् इंजीनियरिंग् च कनाडस्य प्रौद्योगिकी भारतस्य व्यापक-पैमानेन संयोज्य वैश्विक-मूल्य-शृंखलाः सुदृढीक्रियन्ताम्। खाद्य-प्रसंस्करण-क्षेत्रे मेगा-फूड-पार्काः कोल्ड-चेन-व्यवस्था फूड-टेस्टिंग-लैब्स् च शीघ्रं विकसिताः भवन्ति, ये सहयोगस्य नूतनं आयामं प्रदर्शयन्ति।

प्रधानमन्त्री अवदत् यत् सहकारिता केवलं राष्ट्रिय-राजधान्यः पर्यन्तं सीमिता न भवेत्, अपितु राज्य-प्रान्त-स्तरं यावत् विस्तारं प्राप्नुयात्। भारतः कनाडा च यदा सह तिष्ठतः तदा केवलं द्वे अर्थव्यवस्थे न संयोजयतः, अपि तु पूंजी-क्षमतयोः संयोजनद्वारा नूतनां आर्थिक-शक्तिं निर्मातः।

सः क्रिकेट्-क्रीडां निर्दिश्य अवदत् यथा टी-२०-क्रीडायां शीघ्र-निर्णयाः निडर-प्रहाराः विजय-सहभागिताश्च महत्त्वपूर्णाः भवन्ति, तथैव भारतः कनाडा च मिलित्वा भविष्यं आकारयिष्यतः।

अस्मिन् अवसरे कनाडस्य प्रधानमन्त्रिणः मार्क कार्नेः सकारात्मक-विचारान् उल्लेख्य प्रधानमन्त्री अवदत् यत् उभौ देशौ मिलित्वा भारत-कनाडा-सम्बन्धानां नूतनं अध्यायं लिखिष्यतः। सः अपि अवदत् यत् वैश्विकी आर्थिक-व्यवस्था अद्य दबाव-स्थितौ अस्ति, तादृशे काले विश्वसनीय-समान-विचारधारायुक्त-सहभागिनां सहयोगः अधिकं महत्त्वपूर्णः भवति।

----------

हिन्दुस्थान समाचार