Enter your Email Address to subscribe to our newsletters

अरब-डॉलरपर्यन्तं नेष्यतः। उभौ देशौ ‘व्यापक-आर्थिक-सहभागिता-सन्धि:’ शीघ्रं पूर्णीकर्तुं सहमतौ अभवताम्। उभयो: देशयोः सिविल-न्यूक्लियर-ऊर्जाक्षेत्रे दीर्घकालिक-यूरेनियम-आपूर्तेः ऐतिहासिक: सन्धि: सम्पन्नः। देशे भारत–कनाडा ‘पल्स-प्रोटीन-उत्कृष्टता-केन्द्रम्’ अपि स्थापयिष्यते।
सोमवासरे दिल्ली-नगरे हैदराबादहाउस इत्यत्र नरेन्द्रमोदी तथा मार्ककार्नी इत्येतयोः प्रधानमन्त्रिणोः मध्ये द्विपक्षीय-प्रतिनिधिमण्डल-स्तरीया वार्ता अभवत्। वार्ताया: परं उभय-नेतृणां साक्ष्ये रक्षा, शिक्षा, कृषि तथा नवाचारादिषु क्षेत्रेषु सहकार्यसम्बद्धानां सन्धिनाम् आदान-प्रदानं कृतम्।
प्रधानमन्त्री मोदी स्व-पत्राकार-वक्तव्ये अतिथि-नेतुः उभयो: देशयोः सम्बन्धानां गतिवर्धने कृतां भूमिकां प्रशंसितवान्। स उवाच— शीघ्रं भवितुं गच्छन् व्यापार-सन्धि: उभयो: देशयोः व्यापारं निवेशं च प्रोत्साहयिष्यति। अति-आवश्यक-खनिजानां विषये सम्पन्नः सन्धि: आपूर्तिं दृढां करिष्यति। अन्तरिक्ष-क्षेत्रे उभयो: स्टार्ट-अप् तथा व्यवसायाः परस्परं संयोजयिष्यन्ते।
प्रधानमन्त्रिणोक्तम्—भारत तथा कनाडा अक्षय-ऊर्जा तथा ऊर्जा-सञ्चयन-क्षेत्रे सहकार्यं वर्धयिष्यतः, तथा अस्य वर्षस्य अन्तर्गतं तद्-विषयकं एकं सम्मेलनं भारतदेशे आयोजयिष्यते। रक्षा-क्षेत्रे सहकार्यं विस्तारयन् उभौ देशौ भारत–कनाडा रक्षा-डायलॉग-इत्यस्य स्थापनां कर्तुं निर्णयं कृतवन्तौ। अपि च कनाडा वैश्विक-बायोफ्यूल-अलायन्स् तथा सोलर-एनर्जी-अलायन्स् इत्येतयोः सम्मिलनं कर्तुं निर्णीतवान् इति सूचितम्।
एतस्मिन्नवसरे प्रधानमन्त्री आतंकवादं चरमपन्थित्वं च मानवतायाः सामान्यां चशसमस्याम् इति निर्दिश्य अवदत्—एतयोः विरुद्धं उभयो: देशयोः सहकार्यं वैश्विक-शान्त्यै स्थैर्याय च अत्यावश्यकम्।पश्चिम-एशियायाः वर्तमान-स्थितौ गहनां चिन्तां व्यक्तयन् प्रधानमन्त्रिणा संवादेन कूटनीत्या च सर्व-विवादानां समाधानस्य समर्थनं कृतवान्। अपि च वर्तमान-परिस्थितिषु भारतदेश: स्व-नागरिकाणां सुरक्षायै सर्वैः देशैः सह मिलित्वा कार्यं निरन्तरं करिष्यति इति अवदत्।
हिन्दुस्थान समाचार / अंशु गुप्ता