Enter your Email Address to subscribe to our newsletters




नवदिल्ली, 02 मार्चमासः (हि.स.)।भारतभ्रमणे आगतः कनाडादेशस्य प्रधानमन्त्री मार्ककार्नी सोमवासरे राष्ट्रियराजधानी दिल्लीस्थे हैदराबादहाउस इत्यत्र प्रधानमन्त्रिणा नरेन्द्रमोदिना सह समागच्छत्। उभयोः नेतृभ्यां मध्ये द्विपक्षीयवार्ता प्रवर्तते। अस्यां वार्तायां भारतकनाडासम्बन्धान् नवदिशं दातुं व्यापारसहकार्यस्य वर्धनं कर्तुं रणनीतिकसहभागितां दृढीकर्तुं च विशेषतः बलं दातुं सम्भावना अस्ति।
अस्मात् पूर्वं कार्नी विदेशमन्त्रिणा एसजयशङ्करेण सह अपि समागच्छत्। कनाडादेशस्य प्रधानमन्त्रिणः अस्य यात्रायाः प्रमुखः उद्देश्यः विशेषतः ऊर्जा कृत्रिमबुद्धिमत्ता एआई तथा अन्येषु महत्त्वपूर्णेषु प्रौद्योगिकीक्षेत्रेषु सहकार्यस्य संवर्धनम् अस्ति।
कार्नी पूर्वं मुम्बईनगरं गतः आसीत् यत्र सः उद्योगक्षेत्रस्य प्रमुखप्रतिनिधिभिः सह चर्चां कृतवान्। गतसन्ध्यायां सः दिल्लीं प्राप्तवान्।
---------------
हिन्दुस्थान समाचार