प्रधानमन्त्रिणा मोदिना सऊदी–अरब–देशे आक्रमणानां निन्दा कृता, क्षेत्रीय–शान्तेः पुनर्स्थापनाय बलं दत्तम्
नवदिल्ली, ०२ मार्चमासः (हि.स.) —प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे मोहम्मदबिनसलमान: — सऊदी–अरब–देशस्य युवराजेन प्रधानमन्त्रिणा च — सह दूरभाष–सम्भाषणानन्तरं सऊदी-अरब–देशे सम्प्रति आक्रमणानां तीव्रां निन्दां कृतवान्। एतानि आक्रमणानि सऊदी–अरब–देशस्य
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, ०२ मार्चमासः (हि.स.) —प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे मोहम्मदबिनसलमान: — सऊदी–अरब–देशस्य युवराजेन प्रधानमन्त्रिणा च — सह दूरभाष–सम्भाषणानन्तरं सऊदी-अरब–देशे सम्प्रति आक्रमणानां तीव्रां निन्दां कृतवान्। एतानि आक्रमणानि सऊदी–अरब–देशस्य संप्रभुता–क्षेत्रीय–अखण्डतायाः उल्लङ्घनम् इति सः अवदत्।प्रधानमन्त्री मोदी एक्स–माध्यमे प्रकाशिते सन्देशे उक्तवान् यत् सः पश्चिम-एशिया–क्षेत्रे वर्तमान–परिवर्तित–परिस्थिति-विषये क्राउन–प्रिन्स: मोहम्मद–बिन–सलमानेन सह विस्तृतं विचार–विमर्शं कृतवान्।

प्रधानमन्त्रिणा उक्तं —“भारतं सऊदी–अरब–देशे सम्प्रति जातानां आक्रमणानां निन्दां करोति। एतानि आक्रमणानि तस्य संप्रभुता–क्षेत्रीय–अखण्डतायाः स्पष्टं उल्लङ्घनम् अस्ति। क्षेत्रे शान्तेः स्थैर्यस्य च शीघ्रं पुनर्स्थापनम् अत्यावश्यकम् इति विषये उभयोरपि सहमति: जाता अस्ति।”

कठिन–समये भारतीय–समुदायस्य कल्याणस्य संरक्षणाय सऊदी–नेतृत्वेन कृतस्य प्रयासस्य कृते प्रधानमन्त्रिणा आभारः अपि व्यक्तः।

उभयोः नेत्रो: मध्ये सम्पन्ना एषा वार्ता पश्चिम–एशिया–क्षेत्रे विद्यमानस्य चिन्ताया: पृष्ठभूमौ अत्यन्तं महत्त्वपूर्णा मन्यते। भारतं पुनः क्षेत्रीय–शान्तेः, स्थैर्यस्य च समर्थनं कृत्वा संवाद–माध्यमेन समाधानाय स्व–प्रतिबद्धतां पुनरुद्घोषितवान्।

हिन्दुस्थान समाचार / Dheeraj Maithani