भारत–डेलावेयर-जैव–उत्पादन–कार्यसमूहस्य गठनं कृतम् — जितेन्द्रसिंह:
नवदिल्ली, ०२ मार्चमासः (हि.स.) —केन्द्रीय–विज्ञान–प्रौद्योगिकी–राज्यमन्त्री (स्वतन्त्र–प्रभार) डॉ.जितेन्द्रसिंह: सोमवासरे अवदत् यत् भारत–देशस्य अमेरिकादेशस्य डेलावेयर–राज्येन सह उन्नत–जैव–निर्माणक्षेत्रे संरचित–सहयोगाय भारत–डेलावेयर जैव–निर्माण–कार
सेवा तीर्थ में डेलावेयर के गवर्नर मैट मेयर  के साथ बैठक के दौरान केन्द्रीय मंत्री डॉ. जितेन्द्र सिंह


नवदिल्ली, ०२ मार्चमासः (हि.स.) —केन्द्रीय–विज्ञान–प्रौद्योगिकी–राज्यमन्त्री (स्वतन्त्र–प्रभार) डॉ.जितेन्द्रसिंह: सोमवासरे अवदत् यत् भारत–देशस्य अमेरिकादेशस्य डेलावेयर–राज्येन सह उन्नत–जैव–निर्माणक्षेत्रे संरचित–सहयोगाय भारत–डेलावेयर जैव–निर्माण–कार्यसमूहः गठनीयः अस्ति। अयं कार्यसमूहः उभयोः देशयोः मध्ये अनुसन्धानं, विनिर्माणं तथा स्टार्टअप–इकोसिस्टम–क्षेत्रे दृढ–सहभागितां प्रवर्धयिष्यति।

डॉ.सिंहः एतं प्रस्तावं सेवातीर्थ–स्थले सम्पन्नायां सभायां स्थापितवान्, यत्र मैट-मेयर–नेतृत्वे अमेरिकीय–प्रतिनिधिमण्डलम् आगतम् आसीत्। तस्यां सभायाम् औषध–निर्माणं तथा जैव–प्रौद्योगिकी, स्वच्छ–ऊर्जा, नवाचार–आधारित–औद्योगिक–विकास, उन्नत–जैव–निर्माणं च इत्यादिषु क्षेत्रेषु विशेषं बलं दत्तम्।

सः अवदत् यत् विज्ञानं प्रौद्योगिकी च भारत–अमेरिका व्यापक–रणनैतिक–सहभागिताया: महत्वपूर्णः स्तम्भः अस्ति, नवाचार–समृद्धिभि: अमेरिकीय–राज्यैः सह गहन–सहयोगः अपार–सम्भावनाभिः परिपूर्णः अस्ति। भारतदेश: जैव–प्रौद्योगिकी–फार्मास्युटिकल–नवाचारयोः वैश्विक–केन्द्ररूपेण शीघ्रं उद्भवति।

डॉ.सिंहः वैज्ञानिक एवं औद्योगिक अनुसंधान परिषद–संस्थायाः अपि उल्लेखं कृतवान्, यस्याः ३७ प्रयोगशालाः, ७,५००–अधिकाः वैज्ञानिकाः सन्ति, ये ग्रीन–हाइड्रोजन, क्वाण्टम्–प्रौद्योगिकी, बायोसाइंस, बायोफार्मा–अभियानेषु योगदानं कुर्वन्ति। तेन एव उक्तं यत् सर्वकारेण एक–लक्ष–कोटि–रूप्यकाणां आर–एण्ड–डी तथा इनोवेशन–निधिः स्थापितः, येन निजी–निवेशस्य तथा डीप–टेक–निवेशस्य प्रोत्साहनं भविष्यति।

डेलावेयर–राज्यस्य बायोसाइंस–इकोसिस्टमं निर्दिश्य, डॉ.सिंहः जैव–औषधीय–द्रव्य–निर्माणे नवाचाराय राष्ट्रिय–संस्थानस्य उल्लेखं कृतवान्। उभयदेशयोः मध्ये ए.आई.–समर्थित–जैव–निर्माणं, द्रुत–स्केल–अप–प्रौद्योगिकी, अग्रिम–वंश–बायोलॉजिक्स–तथा–टीकाः, किफायती–बायोसिमिलर–टीकानां सह–विकासः च प्रस्तावितः इति तेन सूचितम्।

हिन्दुस्थान समाचार / Dheeraj Maithani