भारत–कनाडा–देशयोः मध्ये अष्ट सन्धय:, नव घोषणाः; व्यापार–सम्बद्ध–सन्धि–विषयेषु सहमति: प्राप्ता
नवदिल्ली, ०२ मार्चमासः (हि.स.) —सोमवासरे सम्पन्नाया: भारत–कनाडा–द्विपक्षीय–वार्तायाः अनन्तरं उभयदेशौ पारस्परिक–सहयोगस्य सुदृढीकरणाय महत्त्वपूर्णान् उपायान् स्वीकृतवन्तौ। वार्ताया: उत्तरं समष्टितः अष्ट सन्धय: हस्ताक्षरिताः, नव च प्रमुखाः घोषणाः कृता
दोनों देशों के प्रधानमंत्री समझौतों के आदान प्रदान के साक्षी बनते हुए


नवदिल्ली, ०२ मार्चमासः (हि.स.) —सोमवासरे सम्पन्नाया: भारत–कनाडा–द्विपक्षीय–वार्तायाः अनन्तरं उभयदेशौ पारस्परिक–सहयोगस्य सुदृढीकरणाय महत्त्वपूर्णान् उपायान् स्वीकृतवन्तौ। वार्ताया: उत्तरं समष्टितः अष्ट सन्धय: हस्ताक्षरिताः, नव च प्रमुखाः घोषणाः कृताः, यासां लक्ष्यं विविध–क्षेत्रेषु सहभागितायाः विस्तारः अस्ति।

वार्तायां भारत–कनाडा–व्यापक–आर्थिक–सहभागिता–सन्धे: (CEPA) कृते विचारणीय–विषयाः (Terms of Reference) निश्चिताः। प्रौद्योगिकी–नवाचार–क्षेत्रे भारत–कनाडा–ऑस्ट्रेलिया–त्रिपक्षीय–सहभागिता अपि सम्पन्ना। भारताय यूरेनियम–आपूर्तये वाणिज्यिक–अनुबन्धः कृतः।

सोमवासरे नवदिल्ली–नगरे हैदराबाद–हाउस–स्थले नरेन्द्रमोदी तथा मार्क कार्नी इत्येतयोः मध्ये द्विपक्षीय–वार्ता सम्पन्ना। वार्तानन्तरं उभयनेत्रो: सान्निध्ये रक्षा, शिक्षा, कृषि, नवाचार–आदि–क्षेत्रेषु सहयोग–सन्धिनां आदान–प्रदानं कृतम्। ततः परं संयुक्त–प्रेस–वक्तव्यं दत्तम्। अस्मिन् प्रसङ्गे प्रधानमन्त्रिणा द्विपक्षीय–सहयोगे गतिं दातुं कार्नी–महाशयस्य प्रशंसा कृता; कार्नी–महाशयेन अपि प्रधानमन्त्री–मोदी–महाशयस्य नेतृत्वस्य प्रशंसा कृता। स्वामी–विवेकानन्दस्य वाक्यं स्मारयन् सः अवदत्— “वयं अग्रे गमिष्यामः; विकसित–भारत–२०४७ तथा ‘Canada Strong’ इति लक्ष्ये सिद्धे न तिष्ठामः।”

विदेश–मन्त्रालयस्य विवरणानुसारं भारत–कनाडा–रक्षा–संवादस्य तथा संसदीय–मैत्री–समूहस्य स्थापना भविष्यति; भारत–कनाडा–CEO–फोरम-इत्यस्य पुनर्गठनं च करिष्यते। कनाडा ‘Global Biofuels Alliance’ तथा ‘International Solar Alliance’ इत्येतयोः सदस्यत्वं स्वीकरिष्यति; भारतस्य सहयोगेन ‘Indian Ocean Rim Association’ मध्ये संवाद–सहभागी–रूपेण अपि प्रवेक्ष्यति।

मन्त्रालयेन उक्तं यत् भारतदेशे संयुक्त–दाल–प्रोटीन–उत्कृष्टता–केन्द्रस्य स्थापना भविष्यति। कनाडा १७–३० मार्चमासयोः आयोजिते ‘India Tribal Festival–2026’ इत्यस्मिन् भागं ग्रहीष्यति।

‘Universities Canada’ द्वारा नूतना कनाडा–भारत–संयुक्त–योग्यता–नवाचार–रणनीतिः प्रवर्तयिष्यते। कृत्रिम–बुद्धिमत्ता, स्वास्थ्य–सेवा, कृषि, नवाचार–आदि–क्षेत्रेषु विश्वविद्यालय–संस्थयोः मध्ये २४ सहभागिता–सन्धि: निश्चिताः। तदतिरिक्तं ‘Globalink Research Internship’, महत्त्वपूर्ण–खनिज–सहयोगः, नवीकरणीय–ऊर्जायाः उपयोग–प्रवर्धनम्, सांस्कृतिक–सहयोगः—एतेषु विषयेषु सन्धि–ज्ञापनानि हस्ताक्षरितानि।विदेश–मन्त्रालये सचिवः (पूर्व) पी.कुमारन् अवदत् यत् अस्य प्रवासस्य पञ्च दृढ–फलितानि सन्ति। प्रथमं—CEPA–प्रारम्भेन स्थायी–आर्थिक–आधारः सुनिश्चितः। शर्तेषु हस्ताक्षरेण २०२६ तमे वर्षस्य अन्ते विस्तृतः, सन्तुलितः, उभय–हितकरः सन्धि: साध्यः इति स्पष्ट–मार्गचित्रं लभ्यते।

कुमारन् अवदत् यत् द्वयोरपि प्रधानमन्त्रिणोः मध्ये इज़राइल–ईरान–सङ्कट–विषये चर्चा अभवत्। भारतदेशेन ईरान–खाडी–क्षेत्रे स्थित्याः विषये गम्भीर–चिन्ता व्यक्ता; सर्वैः पक्षैः संयमः, चिन्ता–अवर्धनं, नागरिक–सुरक्षाया: प्राथमिकता—एतेषु आग्रहः कृतः। संवाद–कूटनीत्योः माध्यमेन समाधानं समर्थितम्।

अपराध–विषये सः अवदत् यत् भारत–कनाडा–सुरक्षा–सहयोगः सुदृढीभवति। उभयदेशयोः राष्ट्रीय–सुरक्षा–सलाहकारयोः सभा: दिल्ली–ओटावा–नगरयोः सम्पन्नाः; आतंकवाद–विरोधी–संयुक्त–कार्य–समूहः सक्रियः अस्ति। प्रत्यर्पण–न्याय–सहयोग–विषये चर्चा प्रवर्तते; मादक–द्रव्य–अपराध–अन्ताराष्ट्रिय–संघटित–अपराध–निवारणाय समन्वय–वृद्धौ सहमति: जाता।

प्रधानमन्त्री–मोदिना वक्तव्ये उक्तं यत् शीघ्रं सम्भाव्यमानः व्यापार–सन्धि: उभयदेशयोः व्यापार–निवेशयोः प्रवर्धनं करिष्यति। अत्यावश्यक–खनिज–सन्धिना आपूर्ति–श्रृङ्खला सुदृढा भविष्यति; अन्तरिक्ष–क्षेत्रे स्टार्टअप–व्यवसाययोः परस्पर–संयोजनं भविष्यति।

तत्रैव प्रधानमन्त्रिणा आतंकवादः तथा चरमपन्थः मानवतायाः सहभाग–समस्या इति निरूप्य, तयोः विरुद्धं उभयदेशयोः सहयोगः वैश्विक–शान्ति–स्थैर्ययोः कृते अनिवार्यम् इति प्रतिपादितम्। पश्चिम–एशिया–स्थित्यां गम्भीर–चिन्तां व्यक्त्वा संवाद–कूटनीत्योः माध्यमेन समाधानं समर्थितम्; वर्तमान–परिस्थितिषु भारतदेशः स्व–नागरिक–सुरक्षायै सर्वैः देशैः सह कार्यं करिष्यति इति अपि सूचितम्।

कनाडा–प्रधानमन्त्री–कार्नी–महाशयेन वक्तव्ये उक्तं यत् गत–वर्षे उभय–सर्वकारयोः मध्ये सहयोगस्य विस्तारः अभवत्— “एतत् केवलं सम्बन्ध–नवीकरणं न, अपि तु नूतन–महत्त्वाकाङ्क्षा–लक्ष्य–दूरदर्शिताभिः युक्ताया: मूल्यवान–सहभाग–विस्तारः अस्ति।” स्वच्छ–ऊर्जा–क्षेत्रे पवन–सौर–हाइड्रोजन–ऊर्जायाः सहयोग–विस्तारः, २०५० पर्यन्तं ग्रिड–द्विगुणीकरण–योजना, अस्मिन् विस्तारे भारतस्य प्रमुख–सहभागिता— एतानि अपि तेन निरूपितानि।

हिन्दुस्थान समाचार / अंशु गुप्ता