Enter your Email Address to subscribe to our newsletters

उज्जैनम्/भोपालम्, 02 मार्चमासः (हि.स.)। फाल्गुनमासस्य पूर्णिमातिथौ अद्य सोमवासरस्य रात्रौ देशव्यापि होलिकादहनं भविष्यति। परम्परानुसारं देशे सर्वप्रथमं मध्यप्रदेशराज्यस्य उज्जैन नगरे स्थिते विश्वविख्याते ज्योतिर्लिङ्गे महाकालेश्वर ज्योतिर्लिंग मंदिर होलिकादहनं विधास्यते।
वास्तुतः देशे सर्वे उत्सवाः सर्वप्रथमं महाकालेश्वरमन्दिरे एव आचर्यन्ते। एषा परम्परा बहुवर्षेभ्यः प्रवहति। अस्याः परम्परायाः अनुसारं अद्य सायंकाले सन्ध्यारत्याः समये पूजारिणः भगवान् महाकालाय गुलालं समर्पयिष्यन्ति। ततः अनन्तरं सायं सप्तवादनार्धे वैदिकमन्त्रउच्चारणेन सह मन्दिरपरिसरे गोमयोपलनिर्मितायाः होलिकायाः दहनं क्रियते।
मन्दिरस्य पूजारी आशीषशर्मा उक्तवान् यत् महाकालमन्दिरे सर्वप्रथमं होलीउत्सवस्य आचरणपरम्परा प्राचीनकालात् प्रवर्तते, यत्र भगवान् प्रतीकार्थं गुलालं समर्प्यते। अस्मिन् वर्षे केवलं एककिलोपरिमितं हरितगुलालं भगवान् महाकालाय प्रतीकार्थं अर्पयिष्यते।
सुरक्षाकारणात् अस्मिन् अपि वर्षे सामान्यश्रद्धालुभ्यः होलिकादहनस्थलस्य समीपगमनस्य अनुमतिः न दास्यते। पूर्वकाले जातां वह्निदुर्घटनां दृष्ट्वा मन्दिरप्रशासनेन विशेषसावधानी स्वीक्रता। होलिकादहनसमये विभागस्य वरिष्ठाधिकारिणः उपस्थिताः भविष्यन्ति।
मन्दिरप्रबन्धसमितेः सूचनानुसारं महाकालमन्दिरे धुलण्डीपर्व मङ्गलवासरे एव आचरिष्यते। तस्मिन् दिने प्रातः चतुर्वादने भवत्या भस्मारत्यां सर्वप्रथमं भगवान् महाकालाय गुलालं लिप्यते। अनन्तरं भगवानः भाङ्गचन्दनाभ्यां विशेषशृङ्गारः विधास्यते। ग्रहणस्य सूतककाले मन्दिरद्वाराणि उद्घाटितानि भविष्यन्ति, किन्तु नियमितभोगः न समर्प्यते। केवलं शर्कराभोगः अर्प्यते। ग्रहणसमाप्तेः अनन्तरं मन्दिरस्य शुद्धिकर्म कृत्वा पूजार्चना आरती च क्रियते।
मन्दिरपरिसरे श्रद्धालुभ्यः रङ्गगुलालधारणस्य अनुमतिः न भविष्यति। पूजारिणः कर्मचारीणः सुरक्षाकर्मिणश्च रङ्गं न नयिष्यन्ति। सर्वेषु प्रवेशद्वारेषु कठोरपरीक्षा भविष्यति। परिसरे सीसीटीवीयन्त्रैः निरीक्षणं क्रियते। मन्दिरप्रशासनं श्रद्धालून् प्रति आह्वानं करोति यत् होलीउत्सवः मन्दिरस्य गरिमानुरूपं शान्त्या श्रद्धया सौहार्देन च आचर्यताम्।
महाकालमन्दिरे वर्षे द्विवारं भगवानः दैनिकचर्यायां परिवर्तनं भवति। कार्तिककृष्णप्रतिपदात् शीतकालानुसारं आरतीसमयः भवति, तथा चैत्रकृष्णप्रतिपदात् ग्रीष्मकालानुसारं आरतीसमयः निर्धार्यते। अस्मिन् वर्षे चैत्रकृष्णप्रतिपदा त्रितीयमार्चदिनाङ्कात् आरभ्य भगवान् महाकालस्य दिनचर्यायां परिवर्तनं भविष्यति। अस्माद् दिवसात् ग्रीष्मारम्भः मन्यते। भगवान् शीतलेन जलेन स्नाप्यते। एषः क्रमः शरद्पूर्णिमापर्यन्तं भविष्यति। अस्मिन् काले प्रतिदिनं भवतीनां पञ्चआरतीनाम् मध्ये त्रयाणां समयः परिवर्तिष्यते।
मन्दिरप्रबन्धसमितेः अनुसारं बाबा महाकालस्य भस्मारती प्रातः ४.०० तः ६.०० पर्यन्तं, दध्योदकारती प्रातः ७.०० तः ७.४५ पर्यन्तं, भोगारती प्रातः १०.०० तः १०.४५ पर्यन्तं च भविष्यति। तथैव सायंपूजनं ५.०० तः ५.४५ पर्यन्तं, सन्ध्यारती ७.०० तः ७.४५ पर्यन्तं, शयनारती च रात्रौ १०.३० तः ११.०० पर्यन्तं निर्धारिता अस्ति।---------------
हिन्दुस्थान समाचार