Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०२ मार्चमासः। खगोल–विज्ञाने रुचिं वहतां जनानां कृते ३ मार्चमासः (मङ्गलवासरः) अत्यन्तं विशेषः भविष्यति। होलिका–उत्सवस्य वर्ण–वैचित्र्यस्य मध्ये आकाशे चन्द्रमाः अपि ताम्र–लालिमया सह दृश्यते। फाल्गुन–मासस्य पूर्णिमायां पूर्ण–चन्द्रग्रहणस्य खगोलीय–घटना भविष्यति, यत्र चन्द्रमा पृथिव्याः पूर्ण–छायामार्गेण गमिष्यति।
भोपाल–नगरे राष्ट्रीय–पुरस्कार–प्राप्ता विज्ञान–प्रसारिका सारिका घारू अवदत् यत् भारतदेशे एषा घटना सायं केवलं किञ्चित्कालं यावत् आंशिक–चन्द्रग्रहणरूपेण दृश्यते। एतत् ग्रहणं “ग्रस्तोदय”–रूपेण दृश्यते, अर्थात् चन्द्रोदय–समये एव चन्द्रमाः ग्रहणग्रस्तः भविष्यति।
सा अवदत् यत् ग्रहणस्य आरम्भः अपराह्णे प्रायः ३ वादने २० निमेषाः इत्यस्मिन् काले भविष्यति, किन्तु तदा भारतदेशे चन्द्रोदयः न जातः भविष्यति। आंशिक–ग्रहणस्य समाप्तिः सायं ६ वादने ४७ निमेषाः इत्यत्र भविष्यति। येषु नगरेषु चन्द्रोदयः शीघ्रं भवति, तत्र ग्रहणं दीर्घकालं यावत् द्रष्टुं शक्यते। पूर्वोत्तर–प्रदेशेषु तु एषा घटना अपेक्षया अधिककालं दृश्यते।
मध्य–प्रदेशस्य सिङ्गरौली–नगरे ग्रहण–दर्शनं सायं प्रायः ६ वादने ०१ निमेषात् आरभ्य दृश्यते, पश्चिमदिशि स्थिते आलीराजपुर–नगरे तु सायं प्रायः ६ वादने ३७ निमेषे दृश्यते। एतत् २०२६ तमे वर्षे प्रथमं चन्द्रग्रहणं भविष्यति।
पूर्ण–चन्द्रग्रहणं “ब्लड–मून” इति अपि कथ्यते। यतः यदा पृथिवी सूर्य–चन्द्रयोः मध्ये आगच्छति, तदा पृथिव्याः वायुमण्डलं सूर्यस्य नील–प्रकाशं विक्षिप्य केवलं रक्त–प्रकाशं चन्द्रमसं प्रति प्रेषयति। तेन कारणेन चन्द्रमाः प्रगाढ–रक्त–वर्णः अथवा ताम्र–वर्णः इव दृश्यते।
सारिका–घारू अवदत् यत् चन्द्रग्रहणं विना कस्यापि विशेष–उपनेत्रेण एव सुरक्षिततया द्रष्टुं शक्यते। अस्या: खगोलीय–घटनायाः कश्चन अंशः विश्वस्य प्रायः ६३ प्रतिशत–जनसंख्यया दृश्यते।
चन्द्रग्रहण–समयाः (भारतीय–समयानुसारम्) —
आंशिक–ग्रहण–आरम्भः — अपराह्णे ३:२०:०७पूर्ण–ग्रहण–आरम्भः — अपराह्णे ४:३४:३४पूर्ण–ग्रहण–समाप्तिः — सायं ५:३२:४९आंशिक–ग्रहण–समाप्तिः — सायं ६:४७:१५पूर्ण–ग्रहण–अवधिः — ५८ निमेषाःअतः खगोल–प्रेमिणां कृते एषा होलिका केवलं वर्णैः न, अपि तु आकाशे दृश्येन अद्भुत–खगोलीय–दृश्येनापि अविस्मरणीया अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता