Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी देशस्य युवानां क्षमता आत्मविश्वासस्य च शक्तिं प्रकाशयन् प्रेरणादायकं संस्कृतसुभाषितं साझा कृतवान्। सः अवदत् यत् भारतस्य युवाशक्तिः यदा किमपि दृढतया संकल्पयति तदा तत् पूर्णतया सिद्धं कृत्वा एव विश्रामं गृह्णाति।
प्रधानमन्त्री सोमवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र लिखितवान् यत् भारतवर्षस्य युवाशक्तेः दृढसंकल्पः अतुलनीयः अस्ति। अस्माकं युवा मित्राणि यत् संकल्पयन्ति तत् कार्यरूपेण प्रदर्शयन्ति। एतदेव कारणं यत् अद्य अस्माकं देशः स्वप्नान् साकारं करोति।
स्वसंदेशे तेन एषः संस्कृतश्लोकः अपि प्रकाशितःन वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये।मम स्वनात् कृधुकर्णो भयात् एवेदनु द्यून्किरणः समेजात्॥
अस्य अर्थः अस्ति यत् आत्मविश्वासस्य शक्तिः अत्यन्तगम्भीरा भवति तां कश्चन अपि दमनं कर्तुं न शक्नोति। पर्वतप्रायाः महाबाधाः अपि मार्गे विघ्नं कर्तुं न समर्थाः भवन्ति। यदि दृढा इच्छाशक्तिः अस्ति तर्हि मनुष्यः सूर्यादपि अधिकशक्तिमान् भवति।
---------------
हिन्दुस्थान समाचार