विदेशी–उच्च–शैक्षणिक–संस्थानेभ्यः भारतस्य नवोन्मेषी–शिक्षा–व्यवस्थया सह संयोजितुं आह्वानम् — धर्मेन्द्रप्रधानः
नवदिल्ली, ०२ मार्चमासः (हि.स.) —केन्द्रीय–शिक्षा–मन्त्री धर्मेंद्रप्रधान: विदेशीय–उच्च–शैक्षणिक–संस्थानेभ्यः (HEI) भारतस्य तीव्र–विकासमानया, नवाचार–आधारितया, बहु–विषयकया च शिक्षा–प्रणाल्या सह सहकार्यं वर्धयितुम् आह्वानं कृतवान्। सोमवासरे सः सुषमास
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान सोमवार को ‘स्टडी इन इंडिया’ एडु-डिप्लोमैटिक कॉन्क्लेव 2026 को संबोधित करते हुए


नवदिल्ली, ०२ मार्चमासः (हि.स.) —केन्द्रीय–शिक्षा–मन्त्री धर्मेंद्रप्रधान: विदेशीय–उच्च–शैक्षणिक–संस्थानेभ्यः (HEI) भारतस्य तीव्र–विकासमानया, नवाचार–आधारितया, बहु–विषयकया च शिक्षा–प्रणाल्या सह सहकार्यं वर्धयितुम् आह्वानं कृतवान्।

सोमवासरे सः सुषमास्वराजभवनस्थले शिक्षा–मन्त्रालयेन आयोजिते ‘Study in India’ एडु–डिप्लोमैटिक–कॉन्क्लेव २०२६ इत्यस्मिन् सम्मेलनं सम्बोधितवान्। अस्मिन् सम्मेलने पञ्चाशत्–अधिक–देशेभ्यः राजदूताः, उच्चायुक्ताः तथा कूटनीतिक–अभियान–प्रतिनिधयः सहभागं कृतवन्तः। मन्त्री प्रधानः अवदत् यत् भारतस्य शिक्षा–व्यवस्थायां व्यापकं परिवर्तनं प्रवर्तते, सा च वैश्विक–सहयोगाय सज्जिता अस्ति।

तेन उक्तं यत् राष्ट्रीयशिक्षानीति: 2020 अन्तर्गतं शिक्षा–अन्ताराष्ट्रियकरणे, गुणवत्तायां, नवाचारे, सुलभ–शिक्षायां च विशेषं बलं दत्तम् अस्ति। सः अपि अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी २०४७ तमे वर्षे भारतं विकसित–राष्ट्रं कर्तुं लक्ष्यं निर्दिष्टवान्, यस्य सिद्ध्यर्थं शिक्षाप्रमुखः आधारः अस्ति।

मन्त्री प्रधानः सूचितवान् यत् भारतस्य महती शक्तिः सशक्तं ज्ञान–पारिस्थितिकी–तन्त्रं, विशाल–युवा–जनसंख्या, तीव्र–विकासमान–अर्थव्यवस्था च अस्ति। ‘Study in India’ प्रयत्नेन वैश्विक–विद्यार्थिभ्यः तथा अनुसन्धानकर्तृभ्यः नूतनाः अवसराः सृज्यन्ते। कृत्रिम–बुद्धिमत्ता, जैव–प्रौद्योगिकी, सेमिकण्डक्टर, सतत–ऊर्जा इत्यादिषु क्षेत्रेषु भारतं विश्वसनीयः नवाचार–सहयोगी इव उद्भवति, ‘Global South’ आदर्शं च अग्रे नयति।

अस्मिन् अवसरे उच्च–शिक्षा–सचिवः डॉ.विनीत: जोशी अवदत् यत् गत–षट्–वर्षेषु राष्ट्रीय–शिक्षा–नीतिः २०२० उच्च–शिक्षा–संशोधनानां स्पष्टां दिशां प्रदत्तवती। विश्वविद्यालय-अनुदान-आयोगेन विदेशीय–विश्वविद्यालयानां भारतदेशे परिसरस–स्थापनाय पारदर्शी, समयबद्धः च नियामक–नमूना प्रवर्तिता अस्ति।

सम्मेलने भारतीय–ज्ञान–परम्परा, SPARC तथा GIAN माध्यमेन शैक्षणिक–सहभागिता, कृत्रिम–बुद्धिमत्ता एवं उन्नत–प्रौद्योगिकी, विदेशीय–विश्वविद्यालय–परिसराणां कृते UGC–विनियमाः २०२३, अन्ताराष्ट्रिय–कौशल–नमूना, ‘भारत Innovates 2026’ इत्यादिषु विषयेषु विचार–विनिमयः कृतः। एषः कॉन्क्लेव छात्र–गतिशीलता, संयुक्त–कार्यक्रमाः, अनुसन्धान–सहयोगः, अन्ताराष्ट्रिय–परिसर–स्थापना च इत्यादिषु क्षेत्रेषु दृढ–सहकार्य–अवसरान् प्रस्तौति स्म।

हिन्दुस्थान समाचार / अंशु गुप्ता