राष्ट्रपतिना ‘लखपति–बिटिया’–योजनाया:, होली–दीपावली–पर्वणो: निःशुल्क–गैस–सिलिण्डर–वितरणस्य तथा ‘सहेली–पिंक–स्मार्ट–कार्ड’–योजनाया: शुभारम्भः कृतः
नवदिल्ली, ०२ मार्चमासः (हि.स.)।राष्ट्रपति-द्रौपदी-मुर्मु सोमवासरे दिल्ली–सर्वकारस्य ‘लखपति–बिटिया’–योजनाया:, होली–दीपावली–पर्वणो: निःशुल्क–गैस–सिलिण्डर–योजनाया: तथा ‘सहेली–पिंक–स्मार्ट–कार्ड’–योजनाया: शुभारम्भं कृतवती। तदेव च ‘लाडली’–योजनाया: अन्तर
दिल्ली स्थित इंदिरा गांधी इंडोर स्टेडियम में राष्ट्रपति द्रौैपद्री मुर्मु  सहेली पिंक कार्ड योजना शुभांरत करती हुईं


दिल्ली स्थित इंदिरा गांधी इंडोर स्टेडियम में


नवदिल्ली, ०२ मार्चमासः (हि.स.)।राष्ट्रपति-द्रौपदी-मुर्मु सोमवासरे दिल्ली–सर्वकारस्य ‘लखपति–बिटिया’–योजनाया:, होली–दीपावली–पर्वणो: निःशुल्क–गैस–सिलिण्डर–योजनाया: तथा ‘सहेली–पिंक–स्मार्ट–कार्ड’–योजनाया: शुभारम्भं कृतवती। तदेव च ‘लाडली’–योजनाया: अन्तर्गतं ४०,६४२ बालिका–लाभार्थिनीनां धनागारेषु १०० कोटि–रूप्यकाणाम् अधिका राशि: प्रत्यक्ष–लाभ–अन्तरण (DBT)–माध्यमेन स्थानान्तरिता।

इंदिरा-गांधी-इंडोर-क्रीडाप्रांगण–स्थले आयोजिते ‘सशक्त नारी, समृद्ध दिल्ली’ इति कार्यक्रमे दिल्लीनगरे महिलानां तथा कन्यानां सर्वाङ्गीण–विकासाय अनेकाः महत्त्वाकाङ्क्षिण्यः योजनाः आरब्धाः। अस्मिन् अवसरे विनयकुमार: सक्सेना, केन्द्रीय–राज्यमन्त्री हर्ष: मल्होत्रा, दिल्ली–मुख्यमन्त्री रेखा गुप्ता, मन्त्रिपरिषद्–मन्त्री मनजिंदरसिंह: सिरसा, डॉ.पंकजकुमारसिंह: इत्येतै: सह सहस्रशः लाभार्थिनी–महिलाः उपस्थिताः आसन्।

राष्ट्रपतिना उक्तं यत् अद्य महिलाः सर्वेषु क्षेत्रेषु उत्कर्षं दर्शयन्ति। सैनिकरूपेण ताः देशस्य सीमाः रक्षन्ति, वैज्ञानिक–रूपेण प्रयोगशालासु अनुसन्धानं कुर्वन्ति, क्रीडा–प्रतियोगितासु अन्ताराष्ट्रिय–मञ्चेषु भारतस्य नाम उज्ज्वलयन्ति। राजनीति:, सामाजिक–सेवा, प्रशासनं, व्यापारः इत्यादिषु सर्वेषु क्षेत्रेषु अद्य महिलाः नूतनाः उच्चताः स्पृशन्ति।

सा अवदत् यत् देशव्यापिषु दीक्षान्त–समारोहेषु उपाधि–पदक–प्राप्तानां छात्राणां संख्याया: निरन्तर–वृद्धिः प्रेरणादायकं दृश्यं प्रस्तौति। तथापि एषा अपि सत्यता अस्ति यत् महिलाः अद्यापि हिंसाया: आर्थिक–असमानताया: सामाजिक–रूढिवादस्य तथा स्वास्थ्य–सम्बद्धाया: उपेक्षाया: सम्मुखिना: भवन्ति। एताः बाधाः निरस्य एव महिला–सशक्तीकरणस्य लक्ष्यं साध्यते। या स्त्री स्वातन्त्र्येण निर्णयं कर्तुं शक्नोति, आत्मसम्मानेन जीवति, समानावसराः सुरक्षां च प्राप्नोति — सा एव सशक्ता भवति। सशक्ता नारी न केवलं स्वजीवनं परिवर्तयति, अपि तु समाजस्य अग्रिम–वंशानां दिशामपि परिवर्तयति।राष्ट्रपति: अवदत् यत् भारत–सर्वकारेण महिला–सशक्तीकरणाय बहवः उपायाः स्वीकृताः। ‘बेटी बचाओ बेटी पढ़ाओ’ योजना शिक्षा–संवर्धनं तथा कन्यानां सुरक्षां प्रोत्सहयति।

प्रधानमन्त्री–उज्ज्वला–योजना धूम–मुक्तं जीवनं प्रदाय महिलानां स्वास्थ्यं रक्षति। प्रधानमन्त्री–मुद्रा–योजना स्वरोजगाराय ऋण–सुलभतां करोति। लखपति–दीदी–योजना आत्मनिर्भरतां प्रोत्सहयति। प्रधानमन्त्री–मातृ–वन्दना–योजना स्त्री–स्वास्थ्ये महत्त्वपूर्णां भूमिकां निर्वहति।

सा अवदत् यत् एतेषां प्रयासानां फलतः महिलानां सामाजिक–आर्थिक–राजनीतिक–स्थितौ निरन्तरं परिवर्तनं दृश्यते। तथापि स्मर्तव्यम् यत् महिला–सशक्तीकरणं केवलं सर्वकारस्य दायित्वं न, अपि तु समाजस्य प्रत्येकं सदस्यस्य संस्थाया: च उत्तरदायित्वम्। महिलाः शिक्षयितुं, तासां आत्मविश्वासं वर्धयितुं, प्रोत्साहनं सहाय्यं च दातुं अस्माकं कर्तव्यं अस्ति। महिलाभ्यः आश्वासनं दातव्यम् यत् तानि स्वप्नानि द्रष्टुं तानि साकारयितुं च शक्नुवन्ति, वयं च तेषां स्वप्न–साकारकरणे सह स्थिताः स्मः।

राष्ट्रपतिना उक्तं यत् दिल्ली–नगरे देशस्य सर्वे राज्याः क्षेत्राणि च प्रतिनिधित्वं कुर्वन्ति। यदि दिल्ली–महिलाः सुरक्षिताः, शिक्षिताः, आत्मनिर्भराः च भवन्ति तथा समाजस्य सर्वेषु क्षेत्रेषु आत्मविश्वासपूर्णं नेतृत्वं प्रददाति, तर्हि तेन सम्पूर्ण–देशाय सकारात्मकः सन्देशः गमिष्यति। दिल्ली राष्ट्रस्य कृते महिला–नेतृत्व–आधारित–विकासस्य आदर्शं प्रदर्शयतु।

उपराज्यपालः विनय–कुमार–सक्सेना अवदत् यत् एषः कार्यक्रमः दिल्ली–नगरे महिला–सशक्तीकरण–दिशि अत्यन्तं महत्त्वपूर्णः सोपानः अस्ति। अद्य आरब्धाः योजनाः राजधानी–निवासिनी–लक्षाधिक–महिलाभ्यः प्रत्यक्ष–लाभं दास्यन्ति। एतै: प्रयत्नै: केवलं महिलाः न, अपि तु तासां परिवाराः अपि सशक्ताः भविष्यन्ति। सशक्तीकरणं केवलं आर्थिक–दृढतया सीमितं न, अपि तु समानावसराः, सुरक्षा, सम्मानं, सामुदायिक–सहभागिता च समानतया आवश्यकाः।

मुख्यमन्त्री रेखा–गुप्ता अवदत् यत् एतत् केवलं योजनानां शुभारम्भः न, अपि तु नारी–सम्मानस्य, आत्मनिर्भरता–विश्वासयोः विस्तारस्य सुदृढः संकल्पः अस्ति। यदा कन्या सशक्ता भवति, तदा परिवारः सशक्तः भवति; या नारी आत्मनिर्भरा भवति, तदा समाजः आत्मविश्वासी भवति; नारी–शक्तेः अग्रगमने विकसित–दिल्ली–मार्गः स्पष्टतरः भवति।

सा अवदत् यत् ‘मेरी पूँजी, मेरा अधिकार’ अभियानस्य अन्तर्गतं दीर्घकालात् लम्बिताया: लाडली–योजनाया: लाभ–राशेः वितरणाय विशेषं अभियानं सञ्चालितम्। प्रथम–चरणे प्रायः ३०,००० बालिकानां धनागारेषु ९० कोटि–रूप्यकाणि DBT–माध्यमेन प्रेषितानि। अद्य राष्ट्रपत्याः सान्निध्ये ४०,००० अधिक–कन्यानां धनागारेषु १०० कोटि–रूप्यकाणि प्रत्यक्षं स्थानान्तरितानि। पूर्व–व्यवस्थायां लाभार्थिन्यः स्व–अवशिष्टस्य ज्ञानं न प्राप्नुवन्ति स्म, अतः ‘लखपति–बिटिया–योजना’ अधिकं सुदृढा, भविष्य–उन्मुखा, पूर्णतया डिजिटल–फेसलेस–प्रणाल्या सह कार्यान्विता।

मुख्यमन्त्रिणा सूचितं यत् अस्य योजनाया: अन्तर्गतं जन्मतः स्नातक–पर्यन्तं चरणबद्ध–रूपेण आहत्य ६१,००० रूप्यकाणि सर्वकारेण निवेशितानि भविष्यन्ति, या ब्याज–सहिताः परिपक्वतां प्राप्य प्रायः सपात्–लक्ष–रूप्यकाणि भविष्यन्ति। अस्य कृते १२८ कोटि–रूप्यकाणां वित्तविवरण–व्यवस्था कृता। चाइल्ड–केयर–संस्थासु निवसन्तीनां कन्यानाम् अपि अस्यां योजनायां समावेशः कृतः, यत्र सर्वकारः तेषां अभिभावक–भूमिकां निर्वहिष्यति। लक्ष्यं एतत् यत् दिल्ली–नगरे काचिदपि कन्या शिक्षायाः वञ्चिता न भवेत् तथा ‘ड्रॉप–आउट’ शब्दः नष्टः भवेत्।

सा अवदत् यत् रसोई–क्षेत्रे अपि सम्मानं तथा शिथिलतां सुनिश्चेतुं होली–दीपावली–पर्वणो: निःशुल्क–गैस–सिलिण्डर–प्रदान–प्रतिज्ञां पूरयित्वा अद्य एव पात्र–लाभार्थिनीनां धनागारेषु DBT–माध्यमेन राशि: प्रेषिता। अस्या: योजनाया: अन्तर्गतं प्रायः १३० कोटि–रूप्यकाणि प्रत्यक्षं महिलानां धनागारेषु स्थानान्तरितानि।

अन्ते मुख्यमन्त्रिणा उक्तं यत् सामूहिक–प्रयासैः एव ‘सशक्त नारीतः समृद्ध दिल्ली’ तथा ‘समृद्ध दिल्लीतः विकसित भारत’ इति मार्गः प्रशस्तः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता