राष्ट्रपतिना ‘लखपति-बिटिया’ योजना, होली–दीपावली-अवसरे निःशुल्क-गैस-सिलिण्डर-प्रदान-योजनाया: तथा ‘सहेली पिंक स्मार्ट कार्ड’ योजनायाः शुभारम्भः कृतः
नवदिल्ली, ०२ मार्चमासः (हि.स.)।द्रौपदीमुर्मुराष्ट्रपतिना सोमवासरे दिल्ली-सर्वकारस्य ‘लखपति-बिटिया’ योजना, होली–दीपावली-अवसरे निःशुल्क-गैस-सिलिण्डर-प्रदान-योजना, ‘सहेली पिंक स्मार्ट कार्ड’ योजना तथा ४०,६४२ कन्यानां धनागारेषु १०० कोटि-रूप्यकाणां प्रत
दिल्ली स्थित इंदिरा गांधी इंडोर स्टेडियम में


दिल्ली स्थित इंदिरा गांधी इंडोर स्टेडियम में राष्ट्रपति द्रौैपद्री मुर्मु  सहेली पिंक कार्ड योजना शुभांरत करती हुईं


नवदिल्ली, ०२ मार्चमासः (हि.स.)।द्रौपदीमुर्मुराष्ट्रपतिना सोमवासरे दिल्ली-सर्वकारस्य ‘लखपति-बिटिया’ योजना, होली–दीपावली-अवसरे निःशुल्क-गैस-सिलिण्डर-प्रदान-योजना, ‘सहेली पिंक स्मार्ट कार्ड’ योजना तथा ४०,६४२ कन्यानां धनागारेषु १०० कोटि-रूप्यकाणां प्रत्यक्ष-लाभान्तरणस्य (डीबीटी) हस्तान्तरणस्य शुभारम्भः कृतः।

अस्मिन् अवसरे इंदिरागांधी-इंडोर-प्रांगण-स्थिते कार्यक्रमे राष्ट्रपतिना सम्बोधनं कृत्वा उक्तम्— अद्य महिलाः सर्वेषु क्षेत्रेषु स्कन्धेन कन्धं मिलित्वा अग्रे गच्छन्ति। सैनिक-रूपेण देशस्य सीमाः रक्षन्ति, वैज्ञानिक-रूपेण प्रयोगशालासु अनुसन्धानं कुर्वन्ति, क्रीडाक्षेत्रेषु अन्ताराष्ट्रिय-मञ्चेषु भारतस्य त्रिरङ्गं प्रसारयन्ति। राजनीति:, समाजसेवा, प्रशासनं तथा व्यापार-जगति— सर्वत्र महिलाः नूतनानि शिखराणि स्पृशन्ति।अत्रैव विनयकुमार-सक्सेना उपराज्यपालः, रेखा गुप्ता मुख्यमन्त्री, हर्ष-मल्होत्रा केन्द्रीय-राज्यमन्त्री, मनजिंदरसिंह: सिरसा दिल्ली-कैबिनेट-मन्त्री तथा पंकजकुमारसिंह: उपस्थिताः आसन्।

राष्ट्रपतिना अपि उक्तम्—स्त्रीणां शिक्षणं, तासां आत्मविश्वास-वर्धनं, प्रोत्साहनं सहयोगं च दातुं सर्वेषां कर्तव्यम्। अस्माभिः स्व-कन्याभ्यः एषः विश्वासः दातव्यः यत् ताः स्वप्नानि द्रष्टुं तानि च साकारयितुं समर्थाः सन्ति, वयं च ताभि: सह स्थास्यामः।राष्ट्रपतिना उक्तम्—नवदिल्ली देशस्य राजधानी अस्ति; अत्र सर्वे राज्य-प्रदेश-जनाः वसन्ति। यदि दिल्ली-नार्य: सुरक्षिताः, शिक्षिताः, आत्मनिर्भराश्च भविष्यन्ति, तर्हि समाजस्य सर्वेषु क्षेत्रेषु आत्मविश्वासेन नेतृत्वं प्रदास्यन्ति, येन देशे सकारात्मकः सन्देशः प्रसारयिष्यते।

मुख्यमन्त्रिणा कार्यक्रमे सम्बोधिते सति उक्तम्—अद्य दिल्ली-इतिहासे नारी-शक्तेः नाम एकः स्वर्णिमः अध्यायः योजितः। एतत् केवलं योजनानां शुभारम्भः न, अपि तु सम्मानस्य सङ्कल्पः, विश्वासस्य विस्तारः, गृहस्य धुरी-स्वरूपस्य परिवारस्य शक्तेः अभिनन्दनं च। यदा कन्या सशक्ती भवति तदा परिवारः सशक्त: भवति; यदा महिला आत्मनिर्भरा भवति तदा समाजः आत्मविश्वासी भवति; नारी-शक्तेः अग्रसरत्वेन विकसित-दिल्ल्याः मार्गः अधिकं स्पष्टो भवति।

मुख्यमन्त्रिणा अपि उक्तम्—दिल्ली-नारी-शक्तये अवसरः, सुरक्षा, सम्मानं च लभ्यते; एष एव अद्यतनस्य दिवसस्य सन्देशः। नारी-शक्तिः विकसित-दिल्ल्याः नूतन: परिचय: भविष्यति। ताभ्यः भगिन्यः, मातरः, प्रियाः कन्याः— सर्वाभ्यः हार्दिकाः शुभाशयाः दत्ताः। “स्वप्नानि पश्यत, स्व-भविष्यं सुसज्जयत; सर्वेषु पदेषु सर्वकारः भवत्या सह एव अस्ति” इति च अवदत्।

हिन्दुस्थान समाचार / अंशु गुप्ता