Enter your Email Address to subscribe to our newsletters

विकाराबादनगरम्, ०२ मार्चमासः (हि.स.)। तेलङ्गाना–राज्यस्य विकाराबाद–जनपदे स्थितेषु अनन्तगिरि–पर्वतेषु कांग्रेस–दलस्य पॉलिटिकल–अफेयर्स–कमेटी (पीएसी) इत्यस्य महत्त्वपूर्णा सभा आरब्धा अस्ति। अस्यां सभायां राहुल–गान्धी, राज्यस्य मुख्यमन्त्री रेवन्त–रेड्डी, उपमुख्यमन्त्री मल्लु–भट्टी–विक्रमर्कः, कांग्रेस–महासचिवः के.सी. वेणुगोपालः, राज्य–कांग्रेस–प्रभारी मीनाक्षी–नटराजनः, तेलङ्गाना–प्रदेश–अध्यक्षः महेश–कुमार–गौडः तथा वाई.एस.शर्मिला इत्येतै: सह अनेके वरिष्ठ–नेतारः सहभागं कृतवन्त:।
दल–सूत्राणां मते राहुल–गान्धी अनन्तगिरौ आयोजिते प्रशिक्षण–कार्यक्रमेऽपि भागं ग्रहीष्यति। अस्मिन् अवसरे एव सः तेलङ्गाना–आन्ध्रप्रदेशयोः जनपद–अध्यक्षैः सह केन्द्रितां चर्चां करिष्यति। सभायां संघटनात्मक–संरचनायाः सुदृढीकरणम्, बूथ–स्तरपर्यन्तं दलस्य सक्रियताया: वृद्धिः, अग्रिम-राजनैतिक–रणनीत्याः अन्तिम–रूपनिर्धारणम् इत्यादिषु विषयेषु विस्तृतं विचार–विमर्शः क्रियते।
राहुल–गान्धी स्थानीय–नेतृभिः सह भूमि–स्तरे दलस्य सशक्तीकरणम्, कार्यकर्तॄणां मध्ये समन्वयस्य सुधारः, भविष्ये ग्रहीतव्येषु दृढ–पदक्षेपेषु च चर्चां कृतवान्। कथ्यते यत् सः कांग्रेस–दलस्य अग्रिमकार्ययोजनायै आकारं दातुं महत्त्वपूर्णां भूमिकां निर्वहति।
राहुल–गान्धी प्रशिक्षण–कार्यक्रमस्य समापन–सत्रेऽपि सहभागी भविष्यति तथा तेलुगुभाषी–राज्यानां जनपद–अध्यक्षाणां प्रमुख–नेतॄणां च मार्गदर्शनं करिष्यति। दल–नेतृत्वस्य विश्वासः अस्ति यत् अस्यां सभायां जनपद–एककानां केन्द्रीय–नेतृत्वेन सह उत्तमं सामंजस्यं स्थापितं भविष्यति, येन संघटनं नूतनां सुदृढतां लप्स्यते।
अस्याः पूर्वं राहुल–गान्धी अद्य प्रातः प्रायः ९:३० वादने राजीव–गान्धी–अन्ताराष्ट्रिय–विमानतलम् (शमशाबाद–विमानतले) आगतः। ततः सः विकाराबादनगरं प्रति प्रस्थितवान्। प्रशिक्षण–कार्यक्रमस्य समापनानन्तरं सः सायंकाले दिल्लीं प्रति प्रस्थानं करिष्यति।कांग्रेस–नेतॄणां कथनानुसारं राहुल–गान्धिनः अयं प्रवास: जनपद–एककानां दलस्य व्यापक–रणनीत्या सह संयोजनाय, अग्रिमराजनैतिक–समस्यानां पुरतः कार्यकर्तॄणां मध्ये उत्साह–सञ्चाराय च अत्यन्तं महत्त्वपूर्णः मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता