Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०२ मार्चमासः (हि.स.)।भारतीयदूरसंचारनियामकप्राधिकरण (ट्राई) द्वारा राजस्थान-राज्यस्य बीकानेर-जनपदे मोबाइल-सेवानां गुणवत्तायाः परीक्षणं कृतम्। अस्मिन् परीक्षणे एयरटेल तथा जियो इत्येतयोः कॉल-सेटअप-सफलता-दरे सर्वोत्तमं प्रदर्शनं दृष्टम्।
केन्द्रीयसंचारमंत्रालयेण सूचितम् यत्—जनवरी-मासे बीकानेर-नगरे, नोखा तथा श्रीडूंगरगढ़-कस्बा-इत्येतयोः, देशनोकात् नोरंगदेसर-मार्गपर्यन्ते (राष्ट्रीय-राजमार्गः एनएच–७५४ए) तथा पूगलात् रंजीतपुरा-राष्ट्रीय-राजमार्गे (एनएच–९११) कृतस्य अस्य परीक्षणस्य माध्यमेन सर्वेषां सेवा-प्रदातॄणां मोबाइल-नेटवर्क-इत्येतेषां वास्तविक-प्रदर्शन-क्षमता परीक्षिता। कॉल-सेटअप-सफलता-दरः, कॉल-ड्रॉप, कॉल-गुणवत्ता, डेटा-डाउनलोड-वेगः तथा अपलोड-वेगः इत्यादिषु प्रमुखेषु मानकेषु निरीक्षणं कृतम्। परीक्षणार्थं उन्नतानि हैंडसेट्-साधनानि तथा सॉफ्टवेयर-प्रणाल्यः प्रयुक्ताः।
बीकानेर-नगरे, नोखा तथा श्रीडूंगरगढ़े कृतस्य परीक्षणस्य परिणामेषु एयरटेल-जियो-इत्यनयोः कॉल-सेटअप-सफलता-दरः प्रायः शतप्रतिशतम् आसीत्, यदा तु बीएसएनएल तथा वोडाफोन आइडिया मध्ये किञ्चित् न्यूनता अभिलक्षिता। डेटा-सेवायां जियो-द्वारा ५जी-डाउनलोड-वेगे सर्वोत्तमं प्रदर्शनं प्रदर्शितम्।
देशनोकात् नोरंगदेसर-मार्गे एयरटेल-जियोयोः कॉल-सफलता-दरः शतप्रतिशतम् आसीत्, यदा तु बीएसएनएल-विआइ-इत्यनयोः अधोगति: दृष्टा। एवमेव पूगलात् रंजीतपुरा-मार्गे जियो-द्वारा कॉल-सेटअप-मध्ये शतप्रतिशत-सफलता प्राप्ता, विआइ-इत्यस्य तु दरः न्यूनतमः आसीत्।
ट्राई इत्यनेन उक्तं यत्— एते परिणामाः उपभोक्तॄणां सूचनार्थं वेबसाइट्-पत्रिकासु च प्रकाशिताः भविष्यन्ति, येन सेवा-प्रदातॄणां सेवासु संशोधनाय प्रोत्साहनं कर्तुं शक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता