होली पर्वणि उत्तरप्रदेशाय बिहाराय च विशेषरेलयानानां संचालनम्
वाराणसी, 02 मार्चमासः (हि.स.)। होली-पर्वणः अवसरे उत्तर-प्रदेश-बिहार-राज्ययोः यात्रिकाणां सुविधार्थं रेल-विभागेन बहूनि होली-विशेष-रेलयानानि सञ्चालिताः सन्ति। एतस्याः सूचना पूर्वोत्तर-रेलवे-जनसम्पर्क-अधिकारी अशोक-नामकः सोमवासरे अदात्। तेन उक्तं यत
बिहार होली विशेष ट्रेन


वाराणसी, 02 मार्चमासः (हि.स.)।

होली-पर्वणः अवसरे उत्तर-प्रदेश-बिहार-राज्ययोः यात्रिकाणां सुविधार्थं रेल-विभागेन बहूनि होली-विशेष-रेलयानानि सञ्चालिताः सन्ति। एतस्याः सूचना पूर्वोत्तर-रेलवे-जनसम्पर्क-अधिकारी अशोक-नामकः सोमवासरे अदात्।

तेन उक्तं यत् ०५०८९ तथा ०५०९० छपरा-आनन्द-विहार-टर्मिनल-छपरा इति गोरखपुर-मार्गेण होली-विशेष-रेलयानम्, छपरा-स्थानकात् ०५ मार्च २०२६ तः १४ मार्च २०२६ पर्यन्तं प्रत्येक-गुरुवासरे शनिवासरे च, तथा आनन्द-विहार-टर्मिनलात् ०६ मार्च २०२६ तः १५ मार्च २०२६ पर्यन्तं प्रत्येक-शुक्रवासरे रविवासरे च सञ्चालितं भविष्यति।

तथैव ०५७४१ तथा ०५७४२ किशनगंज-लालकुआं-किशनगंज इति गोरखपुर-मार्गेण होली-विशेष-रेलयानस्य सञ्चालनम्, किशनगंज-स्थानकात् ०५ मार्च २०२६ तः २६ मार्च २०२६ पर्यन्तं प्रत्येक-गुरुवासरे, तथा लालकुआं-स्थानकात् ०६ मार्च २०२६ तः २७ मार्च २०२६ पर्यन्तं प्रत्येक-शुक्रवासरे क्रियते।

अग्रे सः अवदत् यत् होली-विशेष-रेलयानेषु ०९०२० गोरखपुर-बान्द्रा-टर्मिनस अनारक्षित-होली-विशेष-रेलयानम् ०२ मार्च २०२६ सोमवासरे रात्रौ २३:३५-वादने गोरखपुर-स्थानकात् प्रस्थास्यति।

तथा ०५१८३ तथा ०५१८४ आजमगढ़-बान्द्रा-टर्मिनस-आजमगढ़ होली-विशेष-रेलयानस्य सञ्चालनम्, आजमगढ़-स्थानकात् ०७ तथा १४ मार्च २०२६ तिथिषु, बान्द्रा-टर्मिनस-स्थानकात् ०९ तथा १६ मार्च २०२६ तिथिषु क्रियते।

एवं होली-पर्वणि यात्रिकाणां सुविधार्थं एतानि विशेष-रेलयानानि व्यवस्थितानि सन्ति।

---------------

हिन्दुस्थान समाचार