स्वामिनः अविमुक्तेश्वरानंदस्य विरुद्धे जायते षड्यन्त्रम् : शंकराचार्य सदानन्द सरस्वती
—ज्योतिर्मठस्य शंकराचार्याय दत्तं समर्थनं, अवदत्—अंते सत्यस्य भविष्यति विजयः वाराणसी,02 मार्चमासः (हि.स.)। नाबालिकायाः यौनशोषणस्य आरोपैः परिवेष्टितस्य शङ्कराचार्यस्य स्वामी अविमुक्तेश्वरानन्दसरस्वत्याः समर्थनार्थं द्वारकाशारदापीठस्य जगद्गुरुः
शंकराचार्य सदानन्द सरस्वती


—ज्योतिर्मठस्य शंकराचार्याय दत्तं समर्थनं, अवदत्—अंते सत्यस्य

भविष्यति विजयः

वाराणसी,02 मार्चमासः (हि.स.)।

नाबालिकायाः यौनशोषणस्य आरोपैः परिवेष्टितस्य शङ्कराचार्यस्य स्वामी अविमुक्तेश्वरानन्दसरस्वत्याः समर्थनार्थं द्वारकाशारदापीठस्य जगद्गुरुः शङ्कराचार्यः स्वामी सदानन्दसरस्वती महाराज अग्रे आगतः। तेन उक्तं यत् ज्योतिर्मठस्य शङ्कराचार्यस्य उपरि आरोपितः दोषः सर्वथा मिथ्या अस्ति। एषः राजनैतिकः आरोपः, षड्यन्त्रम् अस्ति। हिन्दूसनातनधर्मस्य आचार्येषु एवंविधम् आक्षेपणं पूर्वनियोजिता योजना इव दृश्यते। जनान् प्रेरयित्वा वक्तव्यं दाप्यते। अन्ते तेषां विजयः भविष्यति, यतः सत्यं पीडितं भवेत्, पराजितं तु न कदापि। सत्यस्य सर्वदा एव विजयः भवति।

सोमवासरे प्रकाशिते वक्तव्ये स्वामी सदानन्दसरस्वती अवदत् यत् वयं इच्छामः यत् देशस्य राजा धार्मिकः भवेत्। स्वामी अविमुक्तेश्वरानन्दः सिद्धान्तस्य, धर्मस्य, सनातनपरम्परायाः च विषये वदति। केचन राजनैतिकदलाः तत् स्वार्थेन स्वीकुर्वन्ति। सनातनीपरम्परायाः विनाशाय यः प्रयासः आङ्ग्लैः आरब्धः आसीत्, अद्यतनाः राजनैतिकदलाः अपि तस्य अनुकरणं कुर्वन्ति। अस्मिन् विषये पक्षः विपक्षश्च उभौ अपि उत्तरदायिनौ स्तः। ये अद्य विपक्षे सन्ति ते पूर्वं सत्तायाम् आसन्।

तेन उक्तं यत् यदि गौहत्याया निषेधः भविष्यति इति वदन्ति, तर्हि उभयपक्षौ जनानां समक्षं सन्ति। ये अद्य विपक्षे सन्ति ते कदाचित् सत्तायाम् आसन्। किम् ते गौहत्यां निरोद्धुं कृतवन्तः? गौहत्या एव स्वामिनः मूलः विषयः अस्ति। अस्मात् विषयात् जनान् विमोहयितुं एषः कुत्सितः प्रयासः क्रियते, यः अन्ततः विफलः भविष्यति, यद्यपि किञ्चित् कालः यास्यति।

ये साधवः संन्यासिनः महात्मानः च यथार्थाः सन्ति, ते स्वामी अविमुक्तेश्वरानन्दस्य पक्षे आगमिष्यन्ति। ये तु सत्तामेव सत्यं मन्यन्ते, ते सत्तायाः समर्थनं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार