Enter your Email Address to subscribe to our newsletters

दार्जिलिंगम्, 02 मार्चमासः(हि. स.)। पश्चिमबङ्गराज्ये विधानसभानिर्वाचनपूर्वं गोरखालैण्डविषयः पुनः राजनैतिकचर्चायां प्रविष्टः अस्ति। सोमवासरे भारतीयजनतापक्षस्य राष्ट्रियनेता नितिन नवीन इत्यस्य सह आयोजितायां सभायां गोरखासमुदायस्य प्रतिनिधयः स्वीयाः पुरातनाः मागाः प्रस्तुतवन्तः।गोरखनायकाः स्पष्टतया अवदन् यत् यदि गोरखालैण्डस्य निर्माणं न सम्भवति तर्हि उत्तरबङ्गप्रदेशः केन्द्रशासितप्रदेशरूपेण स्थाप्यताम्। एषा सभा भारतीयजनतापक्षस्य परिवर्तनयात्रायाः प्रसङ्गे सिलीगुड़ी नगरे अभवत्, यत्र गोरखासमुदायस्य प्रतिनिधयः नितिन नवीनं पारम्परिकया गोरखाटोप्या सम्मानितवन्तः।सभायां गोरखासमुदायेन पर्वतीयक्षेत्रस्य विविधाः समस्याः उल्लिखिताः। ते अवदन् यत् २००७ वर्षे सम्पन्नस्य आन्दोलनस्य अनन्तरं गोरखालैण्ड प्रादेशिक प्रशासनम् स्थापितम्, किन्तु स्थायिसमाधानं न जातम्। गोरखालैण्डमागां प्रति दीर्घकालात् आन्दोलनरतः गोरखासमुदायः आरोपयति यत् राज्यसरकारः अस्मिन् विषये गम्भीरः नास्ति।
राजनीतिविश्लेषकानां मतम् अस्ति यत् राज्यविभाजनप्रश्नः भारतीयजनतापक्षस्य अपि संवेदनशीलः विषयः अस्ति। तथापि अस्मिन् समये गोरखासमुदायेन वैकल्पिकरूपेण उत्तरबङ्गस्य केन्द्रशासितप्रदेशरूपेण स्थापना प्रस्ताविता।
सभानन्तरं दार्जिलिङ्गक्षेत्रात् भाजपा विधायकः नीरज जिम्बा अवदत् यत् यदा गोरखासमुदायेन सहोपवेशनं भवति तदा गोरखालैण्डविषयस्य उल्लेखः स्वाभाविकः एव। दार्जिलिङ्गस्य सांसदः राजू बिस्ता अपि अवदत् यत् सर्वेभ्यः स्वमतप्रकटनस्य अधिकारः अस्ति।
भारतीयजनतापक्षः इच्छति यत् सर्वाः समस्याः संवादमार्गेण समाधानं प्राप्नुयुः। २०२६ वर्षे यदि राज्ये तस्य पक्षस्य शासनं स्थाप्यते तर्हि पर्वतीयप्रदेशस्य समस्यायाः स्थायिसमाधानं निश्चितरूपेण भविष्यति इति उक्तम्। सिलीगुड़ीक्षेत्रस्य विधायकः शंकर घोष अवदत् यत् सभायाः सम्पूर्णा चर्चा तेन न ज्ञाता, किन्तु पक्षः संतुलनं रक्षन् पर्वतीयसमस्यायाः समाधानमार्गं अन्वेषयिष्यति।
उल्लेखनीयम् अस्ति यत् पर्वतीयप्रदेशेषु भारतीयजनतापक्षाय दीर्घकालपर्यन्तं समर्थनम् आसीत्, तथा च दार्जिलिङ्ग लोकसभा आसने पक्षः निरन्तरं विजयम् अलभत। तथापि गोरखासमुदायस्य अभियोगः अस्ति यत् तेषां मागाः अद्यापि न पूर्णाः अभवन्। अस्यैव पृष्ठभूमौ केन्द्रसरकारेण मध्यस्थस्य नियुक्तेः अनन्तरं नितिन नवीनस्य एषा सभा राजनैतिकदृष्ट्या अत्यन्तम् महत्त्वपूर्णा मन्यते।---------------
हिन्दुस्थान समाचार