Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० मार्चमासः (हि.स.)। रेलमन्त्री अश्विनी-वैष्णवः शुक्रवासरे रेल-भवने वरिष्ठ-अधिकारिभिः सह सभां कृत्वा यात्रिणां सुविधाः, सुरक्षा तथा स्थानक-प्रबन्धनसम्बद्धानां उपायानां समीक्षाम् अकरोत्। अस्मिन् अवसरे तेन नवदिल्ली-रेलस्थानकात् आरभ्य एतानि सुधारकार्याणि समयबद्ध-रीत्या कार्यान्वयितुं निर्देशाः दत्ताः।
रेलमन्त्रालयस्य अनुसारं, अस्यां सभायां स्थानके जनसमूहनियन्त्रणम्, प्रवेश-नियन्त्रणम्, तकनीकी-आधारित-निरीक्षणं तथा यात्रिसुविधानां वृद्धिः इत्येतेषु विषयेषु विशेषं बलं दत्तम्। एते सर्वे सुधाराः प्रथमं नवदिल्ली-रेलस्थानके कार्यान्विताः भविष्यन्ति, अनन्तरं अन्येषु स्थानकेषु विस्तारिताः भविष्यन्ति।
स्थानक-परिसरे कृत्रिम-बुद्धिमत्ता-आधारित-कैमरा-जालं स्थापितं भविष्यति, यत् प्लैटफॉर्म्, प्रवेश-निर्गम-द्वाराणि तथा संवेदनशील-क्षेत्राणि चतुर्विंशतिहोराः यावत् निरीक्षिष्यति। विशेषः नियन्त्रण-कक्षः अपि निर्मीयते, यत्र एआई-प्रणाल्या असामान्य-क्रियाकलापानां शीघ्रं परिचयं कृत्वा सावधान-सूचना प्रदास्यते। रेल-सुरक्षा-बलस्य (आरपीएफ) नियुक्तिः अपि वर्धिता भविष्यति।
स्थानके कार्यरतानां सर्वेषां रेल-कर्मचारिणां गैर-रेल-कर्मचारिणां च कृते वर्ण-कोडित-दीप्त-वस्त्राणि (फ्लोरोसेंट्-जैकेट्) तथा अनिवार्य-परिचय-पत्राणि निर्धारितानि भविष्यन्ति, येन यात्रिभ्यः सुरक्षा-संस्थाभ्यश्च तेषां परिचयः सुलभः भविष्यति।
दीपावली-छठ-पर्वणोः सम्भावित-जनसमूहं दृष्ट्वा नवदिल्ली-रेलस्थानके क्यूआर-कोड्-आधारित-प्रवेश-प्रणाली आरभ्यते। अनेन केवलं वैध-पत्रकधारिणः एव स्थानकं प्रवेक्ष्यन्ति, येन सम्मर्द-नियन्त्रणं सुलभं भविष्यति।
यात्रिणां कृते उत्तमां अन्तिम-यात्रा-संयोजकतां दातुं ‘रेलवन’-मोबाइल-अनुप्रयोगः ‘भारत-टैक्सी’ सेवया सह संयोज्यते। एषः प्रयत्नः स्थानक-बाह्य-अव्यवस्थां न्यूनीकर्तुं पारदर्शक-परिवहन-सुविधां च प्रदातुं सहायकः भविष्यति।
देशस्य ७६ स्थानकेषु होल्डिङ्ग-क्षेत्राणि विकसितानि सन्ति, यत्र अनारक्षित-यात्रिणः नियंत्रित-रीत्या संस्थात्रं प्रवेक्ष्यन्ति। तथा स्पष्ट-सूचनाफलकानि (साइनज्) उत्तम-रेल-समाचार-प्रणाली च विकसिताः भविष्यन्ति।
रेलमन्त्रालयेन एतेषां सुधाराणां प्रत्यक्ष-निरीक्षणं क्रियते, येन देशस्य व्यस्त-रेलस्थानकानि सुरक्षितानि, सुव्यवस्थितानि यात्रि-अनुकूलानि च निर्मातुं शक्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता