गुवाहाटी-नगरे जनसम्मर्दस्य मध्ये मुख्यमन्त्रिणा नामांकन-पत्रं समर्पितम्
गुवाहाटीनगरम्, २० मार्चमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमंतबिस्व: सरमा शुक्रवासरे बहुजन-समर्थनस्य मध्ये स्वस्य नामांकन-पत्रं समर्पितवान्। गुवाहाटी-नगरस्य खानापाडा-प्रदेशात् आरब्धे विशाल-संचलने लक्षशः समर्थकाः सहभागिन: अभवन्, येन समग्रं
गुवाहाटी में जनसैलाब के बीच मुख्यमंत्री डॉ हिमंत बिस्व सरमा की नामांकन पत्र दाखिल के लिए रैली।


गुवाहाटीनगरम्, २० मार्चमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमंतबिस्व: सरमा शुक्रवासरे बहुजन-समर्थनस्य मध्ये स्वस्य नामांकन-पत्रं समर्पितवान्। गुवाहाटी-नगरस्य खानापाडा-प्रदेशात् आरब्धे विशाल-संचलने लक्षशः समर्थकाः सहभागिन: अभवन्, येन समग्रं गुवाहाटी-नगरं भगवामयं दृष्टम्।

मुख्यमन्त्रिणः नामांकन-यात्रा खानापाडा-प्रदेशात् कामरूप-जनपदाधिकारी-कार्यालयपर्यन्तं निष्पादिता, यस्मिन् जनसम्मर्द: उद्भूतः। वर्षायाः अपि सति जनानां उत्साहः न न्यूनः अभवत्, अपि च बहुसंख्यकाः जनसंचलने अवस्थिताः।

अस्मिन् अवसरे तस्या भार्या रिनिकी भुइयां सरमा, पुत्रः नंदिलबिस्व: सरमा तथा गुवाहाटी-नगरे सांसद् बिजुली कलिता मेधी अपि उपस्थिताः आसन्।

नामांकनात् पूर्वं मुख्यमन्त्री स्व-मातुः मृणालिनी देवी आशीर्वादं गृहीतवान्। खानापाडा-प्रदेशे समर्थकानां कृते विस्तीर्णरूपेण भोजन-व्यवस्था कृता आसीत्, यस्मिन् पक्वान्नानि अन्यानि खाद्यपदार्थानि च सज्जीकृतानि आसन्।

मुख्यमन्त्रिणः भार्या रिनिकी-भुइयां-शर्मा उक्तवती यत् जालुकबाड़ी-क्षेत्रं तेषां कृते केवलं विधानसभा-क्षेत्रं न, अपितु एकं परिवारम् अस्ति। अद्य अस्य परिवारस्य प्रत्येकं सदस्यः स्वस्य नेतुः समर्थनार्थं अग्रे आगतः अस्ति। सा एतत् परिवारस्य राज्यस्य च कृते आनन्दस्य क्षणम् इति उक्तवती।

मुख्यमन्त्री असम-जनतायाः आशीर्वादं याचमानः उक्तवान् यत् सः जनसमर्थनेन सह निर्वाचन-क्षेत्रे अवतरति।

हिन्दुस्थान समाचार / अंशु गुप्ता