Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, २० मार्चमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमंत-बिस्व-सरमा शुक्रवासरे नामांकन-पत्रं समर्प्य अनन्तरं पत्रकारै: सह वार्तालापे उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीय-गृहमन्त्री अमितशाह: अग्रिम-विधानसभा-निर्वाचनात् पूर्वं राज्ये सक्रियतया प्रचारं करिष्यतः।
मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्री असम-राज्ये न्यूनातिन्यूनं चतस्र: निर्वाचन-सभाः सम्बोधयिष्यति। अपरतः अमित-शाहः राज्यव्यापि षट्-सप्त सभाभिः माध्यमेन निर्वाचन-प्रचारं तीव्रं करिष्यति।
तेन उक्तं यत् प्रधानमन्त्री तथा गृहमन्त्री २८ मार्चमासात् अनन्तरं असमराज्ये स्वस्य निर्वाचन-कार्यक्रमाणां प्रारम्भं करिष्यतः, येन निर्वाचन-वातावरणं अधिकं तीव्रं भविष्यति।
मुख्यमन्त्रिणा एतदपि सूचितं यत् प्रधानमन्त्री अद्य एव प्रत्याशिभिः सह दृश्य-संवाद-प्रणाल्या (वीडियो-कॉन्फरेन्स) मध्ये सहभागी भविष्यति, यस्मिन् निर्वाचन-रणनीतिः तथा प्रचार-रूपरेखा निर्धारिता भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता