Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० मार्चमासः (हि.स.)। दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता शुक्रवासरे इन्द्रप्रस्थ-बस-संस्थात्रात् ३०० नवीनानि ईवी-बसयानानि हरित-ध्वजं दर्शयित्वा जनतायै समर्पितवती। तेन सह नानकसर–गाजियाबादयोः मध्ये नवीना अन्तर्राज्यीय-बस-सेवा अपि प्रारब्धा तथा दिल्ली-परिवहन-निगमस्य (डीटीसी) नूतन-कार्यालय-भवनस्य शिलान्यासः कृतः।
मुख्यमन्त्री ‘एक्स’ इत्यत्र लेखं प्रकाश्य उक्तवती यत् एषः घरण: दिल्ली-नगरे यातायातस्य गतिं नूतनां दिशां ददाति। अधुना यात्रा अधिका सुलभा भविष्यति, संयोजनम् (कनेक्टिविटी) अपि तीव्रतरं भविष्यति। तया उक्तं यत् गतवर्षे २००० अधिकानि ईवी-बसयानानि डीटीसी-समूहस्य अन्तर्गतानि कृतानि। सार्वजनिक-परिवहनं पूर्णतया प्रदूषण-रहितं कर्तुं वयं डीटीसी-सम्पूर्ण-वाहन-समूहं ईवी-रूपेण परिवर्तयिष्यामः।
मुख्यमन्त्री उक्तवती यत् २०२३ वर्षात् निरुद्धः ईवी-प्रोत्साहन-पटल: अपि पुनः प्रारब्धः। अस्य अन्तर्गतं १२,८७७ जनानां कृते २४ कोटि-रूप्यकाणां लंबित-आर्थिक-सहायता प्रत्यक्ष-लाभ-हस्तान्तरण (डीबीटी) माध्यमेन प्रदत्ता।
अस्मिन् अवसरे दिल्ली-राज्यस्य परिवहन-मन्त्री पंकजकुमारसिंह:, विधायकः तरविंदरसिंहमारवाह: च उपस्थितौ आस्ताम्।
हिन्दुस्थान समाचार / अंशु गुप्ता