मुख्यमंत्री सरमा अद्य करिष्यति नामांकन पत्रम् आवेदितम्
गुवाहाटी, 20 मार्चमासः (हि.स.)। असमराज्यस्य मुख्यमंत्री डॉ. हिमन्तबिसवाशर्मा शुक्रवासरे स्वस्य नामांकनपत्रं दापयिष्यति, यत् राज्यस्य निर्वाचनपरिदृश्ये महत्वपूर्णा घटना इति मन्यते। मुख्यमन्त्रिणः समीपस्थानां सूत्राणां अनुसारं सः खानापाडा इत्यस्मा
Assam CM Dr Himanta Biswa Sarma. मुख्यमंत्री डॉ हिमंत बिस्व सरमा


गुवाहाटी, 20 मार्चमासः (हि.स.)।

असमराज्यस्य मुख्यमंत्री डॉ. हिमन्तबिसवाशर्मा शुक्रवासरे स्वस्य नामांकनपत्रं दापयिष्यति, यत् राज्यस्य निर्वाचनपरिदृश्ये महत्वपूर्णा घटना इति मन्यते।

मुख्यमन्त्रिणः समीपस्थानां सूत्राणां अनुसारं सः खानापाडा इत्यस्मात् स्थानात् विशालां यात्रां निष्कास्य कामरूपजिलाधिकारीकार्यालयं प्रति गमिष्यति, यत्र सः औपचारिकतया स्वस्य नामांकनपत्रं समर्पयिष्यति।

अस्यां यात्रायां बहवः दलकार्यकर्तारः समर्थकाः वरिष्ठनेतारश्च सहभागी भविष्यन्ति इति सम्भावना अस्ति, येन निर्वाचनात् पूर्वं व्यापकजनसमर्थनस्य प्रदर्शनं भविष्यति।

नामांकनप्रक्रियायाः दृष्ट्या प्रशासनद्वारा कडकानि सुरक्षा-व्यवस्थानि कृतानि सन्ति। अपि च, भीडनियन्त्रणार्थं यातायातव्यवस्थायामपि आवश्यकपरिवर्तनानि कृतानि सन्ति।

हिन्दुस्थान समाचार