Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 20 मार्चमासः (हि.स.)।
दिल्ली सर्वकारस्य वित्तीयसत्रात् पूर्वं शुक्रवासरे विधानसभा अध्यक्षं विजेन्द्र गुप्तं प्रति मुख्यमन्त्री रेखा गुप्ता शिष्टाचार मुलाकातं कृतवती। आगामि २३ मार्चतः वित्तीयसत्रं प्रारभ्यते तथा २४ मार्चे दिल्ली राज्यस्य वित्तीयप्रस्तुतं भविष्यति।
मुख्यमन्त्री रेखा गुप्ता सामाजिक माध्यमे एक्स इत्यत्र लेखं कृत्वा उक्तवती यत् अद्य दिल्ली विधानसभायाः अध्यक्षेण विजेन्द्र गुप्तेन सह शिष्टाचार मुलाकातं कृतवती। अस्मिन् अवसरे आगामि वित्तीयसत्रस्य सज्जता तथा दिल्ली विकासेन सम्बद्धेषु विविध विधायीविषयेषु सार्थकः संवादः अभवत्। सा उक्तवती यत् अस्माकं सर्वकारः दिल्ली नगरस्य प्रगतिं तथा जन आकाङ्क्षाणां पूर्तिं करणीयं वित्तीयप्रस्तोतुं पूर्णतया समर्पिता अस्ति।
अस्मिन् अवसरे विधानसभा उपाध्यक्षः मोहन सिंह बिष्टः, कैबिनेट मन्त्री प्रवेश साहिब सिंह, मुख्य सचेतकः अभय वर्मा च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार