रायपुरम् : मुख्यमंत्री  सायः प्रदेशवासिभ्यः चेट्रीचण्ड्रस्य अददात् शुभकामनाः
रायपुरम् 20 मार्चमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः अद्य शुक्रवासरे भगवान् झूलेलालस्य जयन्त्याः पावने अवसरि तं श्रद्धया नत्वा प्रदेशवासिनः, विशेषतया सिन्धीसमाजं प्रति चेट्रीचन्द्रपर्वणः हार्दिकाः अभिनन्दनानि शुभाशंसाश्च प्रदत्तवान्। मुख्यम
मुख्यमंत्री  विष्णु देव साय


रायपुरम् 20 मार्चमासः (हि.स.)।

मुख्यमंत्री विष्णुदेवसायः अद्य शुक्रवासरे भगवान् झूलेलालस्य जयन्त्याः पावने अवसरि तं श्रद्धया नत्वा प्रदेशवासिनः, विशेषतया सिन्धीसमाजं प्रति चेट्रीचन्द्रपर्वणः हार्दिकाः अभिनन्दनानि शुभाशंसाश्च प्रदत्तवान्।

मुख्यमंत्री सायः अवदत् यत् भगवान् झूलेलालः समरसतायाः सहिष्णुतायाः जलसंरक्षणस्य च प्रतीकः अस्ति। तस्य शिक्षाः अद्यापि मानवतां संयोजयितुं सन्देशं ददति।

सः अपि अवदत् यत् चेट्रीचन्द्रपर्व सिन्धीसमाजस्य प्रमुखः सांस्कृतिकः उत्सवः अस्ति, यः न केवलं झूलेलालस्य जयन्तिरूपेण, अपि तु नववर्षरूपेण अपि पूर्णोत्साहेन श्रद्धया च आचर्यते।

मुख्यमंत्री सायः अस्मिन् अवसरे सर्वेषां नागरिकानां जीवनस्य सुखं समृद्धिं स्वास्थ्यं शान्तिं च कामितवान्, तथा च उक्तवान् यत् एते उत्सवाः सामाजिकैक्यं सांस्कृतिकगौरवं च सुदृढीकुर्वन्ति।

हिन्दुस्थान समाचार