मित्रता संपन्ना , गौरव गोगोई अखिल गोगोई इत्याभ्याम् अकरोत् मुख्यमंत्रिपदस्य मुखं घोषितम्
गुवाहाटी, 20 मार्चमासः (हि.स.)। गौरवगोगोई असम-विधानसभा-निर्वाचनम् २०२६ इत्यस्य संदर्भे एकस्मिन् महत्वपूर्णे राजनैतिक-घटनाक्रमे शुक्रवासरे औपचारिकरूपेण गठबन्धनस्य घोषणा कृतवान्। अस्मिन् अवसरे राइजर-दलस्य अध्यक्षः अखिलगोगोई गौरव-गोगोईं मुख्यमन्
Courtesy photo


गुवाहाटी, 20 मार्चमासः (हि.स.)।

गौरवगोगोई असम-विधानसभा-निर्वाचनम् २०२६ इत्यस्य संदर्भे एकस्मिन् महत्वपूर्णे राजनैतिक-घटनाक्रमे शुक्रवासरे औपचारिकरूपेण गठबन्धनस्य घोषणा कृतवान्। अस्मिन् अवसरे राइजर-दलस्य अध्यक्षः अखिलगोगोई गौरव-गोगोईं मुख्यमन्त्री-पदस्य मुखरूपेण घोषितवान्।

माध्यमैः सह संवादे गौरव-गोगोई अखिल-गोगोईं संभावित-गठबन्धन-सरकारस्य “मुख्य-सेनापतिः” इति उक्त्वा तस्य नेतृत्व-क्षमतायां विश्वासं व्यक्तवान्। सः उक्तवान् यत् एतत् गठबन्धनम् आगामि-निर्वाचने सत्तारूढ-पक्षं प्रति प्रतिस्थितिं दातुं एकत्रितरूपेण निर्वाचन-क्षेत्रे अवतीर्यते।

एषा घोषणा राज्यस्य राजनीतौ विपक्ष-दलानां मध्ये महत्त्वपूर्णं रणनीतिक-समन्वयस्य संकेतं ददाति। उभौ नेतारौ भूमिस्थरे दृढ-समन्वयस्य तथा जन-समर्थनस्य संग्रहस्य उपरि विशेषं बलं दत्तवन्तौ।

आसन-विभाजनस्य तथा संयुक्त-निर्वाचन-अभियानस्य विस्तृत-रूपरेखा आगामि-दिनेषु घोषिता भविष्यति इति संभावना वर्तते।

उल्लेखनीयम् यत् गत-किञ्चित्-दिनेषु गौरव-गोगोई तथा अखिल-गोगोई इत्येतयोः मध्ये गठबन्धन-विषये चर्चाः अत्यन्तं प्रवृत्ताः आसन्। अस्मिन् मध्ये कांग्रेस-दलेन यदा स्व-उम्मीदवाराणां प्रथम-सूची प्रकाशिताऽभूत् तदा अखिल-गोगोई अप्रसन्नः अभवत्। तेन अपि स्व-उम्मीदवाराणां नामानि घोषितानि, किन्तु अन्तराले उभयोः दलयोः मध्ये गठबन्धन-विषयकाः चर्चाः गुप्तरूपेण प्रवृत्ताः एव आसन्। अन्ततः गठबन्धनं सम्पन्नम्। मन्यते यत् अस्मात् गठबन्धनात् अखिल-गोगोई लाभं प्राप्स्यति।

हिन्दुस्थान समाचार