प्रधानमन्त्री नरेन्द्र: मोदी थाइलैण्ड-देशस्य नवनिर्वाचितं प्रधानमन्त्रिणं अनुतिन-चर्नविराकुलं अभिनन्दितवान्
नवदिल्ली, २० मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अनुतिन-चर्नविराकुलाय थाइलैण्ड-देशस्य प्रधानमन्त्रीपदे नियुक्ते सति अभिनन्दनं कृतवान् तथा उभयोः देशयोः सम्बन्धान् अधिकं सुदृढान् कर्तुम् इच्छां व्यक्तवान्। प्रधानमन्त्रिणा ‘एक्स’
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, २० मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अनुतिन-चर्नविराकुलाय थाइलैण्ड-देशस्य प्रधानमन्त्रीपदे नियुक्ते सति अभिनन्दनं कृतवान् तथा उभयोः देशयोः सम्बन्धान् अधिकं सुदृढान् कर्तुम् इच्छां व्यक्तवान्।

प्रधानमन्त्रिणा ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे उक्तं यत् सः थाइलैण्ड-देशस्य नूतनेन नेतृत्वेन सह मिलित्वा भारत-थाइलैण्डदेशयोः बहुआयामी-रणनैतिक-सहभागितां अधिकां सुदृढां कर्तुं उत्सुकः अस्ति। तेन उक्तं यत् उभयोः देशयोः सम्बन्धाः सभ्यतागत-परम्परया, घनिष्ठ-सांस्कृतिक-संबन्धैः तथा जन-जनयोः दृढ-संपर्कैः आधारिताः सन्ति।

प्रधानमन्त्रिणा अपि उक्तं यत् भारत-थाइलैण्ड-देशौ स्व-स्व-नागरिकाणां कृते शान्ति-प्रगति-समृद्धिनां आकाङ्क्षासु प्रतिबद्धौ स्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता