Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० मार्चमासः (हि.स.)। पश्चिम-एशिया-प्रदेशे प्रवर्तमाने संघर्षे विदेशमन्त्री डॉ.एस.जयशंकर: ऑस्ट्रेलिया-देशस्य विदेशमन्त्रिण्या पेनी वोंग इत्यनया सह वार्तालापं कृत्वा स्व-स्व-विचारान् विनिमयितवान्।
डॉ.जयशंकरः ‘एक्स’ इत्यत्र लिखितवान् यत्— “मम ऑस्ट्रेलिय-समकक्षया सह वार्तां कृत्वा अतीव हर्षः अभवत्। वयं पश्चिम-एशिया-प्रदेशे प्रवर्तमाने संघर्षे स्व-स्व-आकलनानि विनिमयितवन्तः। सह एव हिन्द-प्रशान्त-प्रदेशेन सम्बन्धितेषु विषयेषु अपि चर्चा कृता।” तेन अद्य अन्येषां देशानां उच्च-अधिकारिभिः सह अपि समागमः कृतः।
इजराइल-अमेरिका-आक्रमणानन्तरं ईरान-देशस्य खाडी-देशैः सह अपि संघर्षः प्रवर्तते। अनेन कारणेन ईरानदेशात् वाति-आपूर्तिः समये न भवति, येन अन्येषु देशेषु स्थिति: चिन्ताजनका जाता तथा ऊर्जा-मूल्यानि वर्धन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता