Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० मार्चमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-राज्यमन्त्री प्रतापजाधव: उक्तवान् यत् राष्ट्रीय-स्वास्थ्य-अभियानस्य अन्तर्गतं वित्त-वर्षे २०२५–२६ कृते हिमाचल-प्रदेशाय ५०४.२९ कोटि-रूप्यकाणि निर्गतानि सन्ति।
तेन उक्तं यत् अस्य एव योजनायाः अन्तर्गतं वित्त-वर्षे २०२५–२६ कृते पञ्जाब-राज्याय ५७२.६६ कोटि:, हरियाणा-राज्याय ४८०.७१ कोटि:, राजस्थान-राज्याय १,९५३.७७ कोटि:, दिल्ली-राज्याय २५४.५४ कोटि:, उत्तराखण्ड-राज्याय ५६३.१५ कोटि:, जम्मू-कश्मीर-प्रदेशाय ६६९.३२ कोटि: तथा लद्दाख-प्रदेशाय १४१.८६ कोटि-रूप्यकाणि निर्गतानि सन्ति।
एषा सूचना तेन राज्यसभा-सांसदायै इंदु गोस्वामी तया पृष्टस्य प्रश्नस्य उत्तररूपेण सभायां प्रदत्ता। तेन अपि उक्तं यत् वित्त-वर्षे २०२५–२६ कृते सर्वाधिकं धनं उत्तर-प्रदेशाय ५,०२७.४६ कोटि-रूप्यकाणि निर्गतानि सन्ति, यदा तु न्यूनतमं धनं १०.५५ कोटि-रूप्यकाणि लक्षद्वीप-प्रदेशाय प्रदत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता