दिल्ली-उपराज्यपालः प्रधानमन्त्रिणा मोदिना सह समागमनं कृतवान्
नवदिल्ली, २० मार्चमासः (हि.स.)। दिल्ली-राज्यस्य उपराज्यपालः तरनजीतसिंह: संधू शुक्रवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह शिष्टाचार-साक्षात्कारं कृतवान्। पदभार-ग्रहणानन्तरम् एष: तस्य प्रथमः समागमः आसीत्। प्रधानमन्त्री-कार्यालयेन ‘एक्स’ इत्यत्र अस्
दिल्ली के उपराज्यपाल तरनजीत सिंह संधू शुक्रवार को प्रधानमंत्री नरेन्द्र मोदी से भेंट के दौरान


नवदिल्ली, २० मार्चमासः (हि.स.)। दिल्ली-राज्यस्य उपराज्यपालः तरनजीतसिंह: संधू शुक्रवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह शिष्टाचार-साक्षात्कारं कृतवान्। पदभार-ग्रहणानन्तरम् एष: तस्य प्रथमः समागमः आसीत्।

प्रधानमन्त्री-कार्यालयेन ‘एक्स’ इत्यत्र अस्य समागमस्य सूचनां लिखित्वा उक्तं यत् दिल्ली-उपराज्यपालः संधू तेन सह समागतः।

अस्मात् पूर्वं उपराज्यपालः संधू केन्द्रीय-सूचना-प्रसारण-मन्त्री अश्विनीवैष्णवेन सह अपि तस्य निवासे समागमनं कृतवान्। संधू ‘एक्स’ इत्यत्र प्रकाशितेन सन्देशेन उक्तवान् यत् अस्मिन् समागमे दिल्ली-संबद्धेषु विभिन्नेषु महत्वपूर्णेषु विषयेषु चर्चा कृता।

उल्लेखनीयम् अस्ति यत् तरनजीतसिंह: संधू ११ मार्चमासे लोक-निवासे दिल्ली-राज्यस्य २३तम-उपराज्यपालरूपेण पदभारं गृहीतवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता