नवीनः आयकर-अधिनियमः वादान् न्यूनीकरिष्यति तथा अनुपालनं सरलतया करिष्यति — सीतारमणः
नवदिल्ली, २० मार्चमासः (हि.स.)। केन्द्रीय-वित्तमन्त्री निर्मला-सीतारमणः शुक्रवासरे राष्ट्रिय-राजधानी-नवदिल्ली-नगरे ‘इनकम्-टैक्स्-वेबसाइट् २.०’ तथा ‘प्रारम्भ २०२६’ इति कार्यक्रमं प्रारब्धवती, यस्य उद्देश्यं कर-प्रणालीं सरलतया कर्तुं तथा वादान् न्यून
'प्रारंभ 2026' अभियान लॉन्च के अवसर पर संबोधित करते सीतारमण


नवदिल्ली, २० मार्चमासः (हि.स.)। केन्द्रीय-वित्तमन्त्री निर्मला-सीतारमणः शुक्रवासरे राष्ट्रिय-राजधानी-नवदिल्ली-नगरे ‘इनकम्-टैक्स्-वेबसाइट् २.०’ तथा ‘प्रारम्भ २०२६’ इति कार्यक्रमं प्रारब्धवती, यस्य उद्देश्यं कर-प्रणालीं सरलतया कर्तुं तथा वादान् न्यूनीकर्तुं अस्ति।

अस्य कार्यक्रमस्य उद्घाटनावसरे सा अवदत् यत् नवीनः आयकर-अधिनियमः वादान् पर्याप्तं न्यूनीकर्तुं तथा अनुपालनं सरलतया कर्तुं प्रयतते। सा कर-अधिकारिभ्यः अपि अनुरोधं कृतवती यत् ते करदातॄन् विरोधिनः इव न मन्यन्ताम्, अपि तु “राष्ट्र-निर्माणे भागिनः” इति दृष्ट्या पश्यन्तु।

“आयकर-अधिनियमः २०२५” इत्यस्य राष्ट्रव्यापि-जागरूकता-अभियानस्य आरम्भं कृत्वा वित्तमन्त्री ‘इनकम्-टैक्स्-वेबसाइट् २.०’ अपि उद्घाटितवती। सा उक्तवती— “करदातारः न भवन्तः विरोधिनः, अपि तु राष्ट्र-निर्माणस्य सहकारिणः सन्ति।” अतः कर-अधिकारिणः अधिक-सहयोगात्मक-भावनया कार्यं कुर्वन्तु इति तया उक्तम्।

स्व-भाषणे सा नूतन-दृष्टिकोणस्य, नूतन-मानसिकतायाः च आवश्यकता प्रतिपादितवती। सा उक्तवती— “अहं इच्छामि यत् भवन्तः एतत् ‘प्रारम्भ’ इति अवसरं गृह्णन्तु, येन नूतना मानसिकता स्वीक्रियते।” काव्यमय-शैल्या सा उक्तवती— “त्यज्यताम् अतीताः विषयाः, आगच्छामः वयं मिलित्वा आयकरस्य नूतन-कथां लिखामः।”

सा आयकर-विभागं प्रति सन्देशं दत्तवती यत् ते केवलं कर-संग्राहकाः न सन्ति, अपि तु करदातॄभिः सह सर्वकारस्य सम्बन्धस्य मुखं भवन्ति। नवीनः अधिनियमः स्पष्टतरां सुव्यवस्थितां च नमूनां प्रददाति, येन प्रणाली अधिक-सुलभा भवति, विशेषतः तेषां कृते ये तां उत्तमरीत्या ज्ञातुम् इच्छन्ति।

वित्तमन्त्री उक्तवती यत् एषः अधिनियमः सहानुभूत्या, निष्पक्षतया, कुशलतया च कार्यान्वयनीया। तस्याः आशा अस्ति यत् सर्वे अधिकारिणः अस्य नूतन-अधिनियमस्य भावनां पूर्णतया स्वीकरिष्यन्ति।

स्व-भाषणे सा प्रधानमन्त्री नरेन्द्र-मोदिनः एआई-शिखर-सम्मेलने कृतं भाषणम् अपि उल्लिखितवती, यत्र “एम.ए.एन.ए.वी.” इति दृष्टिकोणं प्रस्तुतम् आसीत्- नैतिक-आचार-प्रणाल्यः, उत्तरदायी-शासनम्, राष्ट्रीय-स्वायत्तता, सुलभ-समावेशी-एआई, तथा न्यायसंगत-प्रणाल्यः।

उल्लेखनीयम् यत् ‘प्रारम्भः २०२६’ इति अभियानं १ अप्रैलमास २०२६ तः प्रवर्तिष्यते, यत् ‘आयकर-अधिनियमः २०२५’ विषये जन-जागरूकतां वर्धयितुं आरब्धम् अस्ति। एषः प्रयत्नः जटिलतां न्यूनीकर्तुं, ‘आयकर-पटल २.०’ द्वारा अनुपालनं सरलतया कर्तुं, लघु-मध्यम-उद्योगानां (एमएसएमई) कृते च शिथिलतां दातुं महत्त्वपूर्णः कर-सुधारः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता