Enter your Email Address to subscribe to our newsletters

मथुरानगरम्, २० मार्चमास: (हि.स.)। राष्ट्रपति-द्रौपदीमुर्मु स्व-त्रिदिवसीय-मथुराप्रवासाय गुरुवासरे कृष्णनगरीं प्राप्तवती। कैंट्-विमानपत्तने अवतर्य राष्ट्रपतिना ब्रजप्रदेशस्य सुप्रसिद्धं इस्कॉनमन्दिरं तथा प्रेममन्दिरम् दर्शनं कृतम्। अस्मिन् अवसरे तत्रैव उत्तरप्रदेश–राज्यपालः आनंदीबेनपटेलः तस्या: कुलस्य च उपस्थितिः अभवत्।
गुरुवासरे मध्याह्ने राष्ट्रपतिने हेलिकोप्टरविमानं सैन्य–हेलिपैडक्षेत्रे अवतरितम्। तत्र राज्यपालः आनंदीबेनपटेलः, कैबिनेट–मन्त्री लक्ष्मीनारायणः चौधरी, प्रभारी–मन्त्री संदीपसिंहः, सांसदः तेजवीरसिंहः, महापौरः विनोद-अग्रवालः, लेफ्टिनेन्ट–जनरलः वी.हरिहरन्, अपर–आरक्षक–महानिदेशकः आगराक्षेत्रस्य अनुपमकुलश्रेष्ठः, मण्डलायुक्तः आगरा नगेन्द्रप्रतापः, दलनायकः शिवम-मनचंदा, जनपदाधिकारी चन्द्रप्रकाशसिंहः वरिष्ठ–प्रशासनिकाः च समागताः। ते राष्ट्रपतिमहोदयायाः भव्यं स्वागतं कृतवन्तः। ततः राष्ट्रपतिमण्डलम् प्रत्यक्षं वृन्दावनं प्रति निर्गतम्।
इस्कॉन-मन्दिरे बालकेभ्यः चॉकलेहं वितरितम्
राष्ट्रपतिमहोदया सर्वादौ वृन्दावने स्थितं इस्कॉन-मन्दिरम् प्राप्तवती। मन्दिरस्य पञ्चाशत्–वर्ष–स्वर्णजयन्त्याः अवसराय, तया राधा–श्यामसुंदरविग्रहम् विधिपूर्वकं पूजित्वा आरार्तिकी च कृता। मन्दिर–अध्यक्षः पञ्चगौडा-दासः उक्तवान् यत् राष्ट्रपतिः मन्दिरस्य साजसज्जां भक्तिपरिपूर्णं च वातावरणं अत्यन्तं प्रीत्या दृष्टवती। पूजनानन्तरं राष्ट्रपतिमहोदया मन्दिरपरिसरे बालकैः सह आत्मीयता–संबद्धां वार्तां कृत्वा तेभ्यः चॉकलेहं दत्तवती। तया मन्दिर–अधिकारिभ्यः उक्तम् यत् सा पुनः दर्शनाय आगन्तुम् इच्छति।
प्रेममन्दिरे दृष्टवती लेजर–दृश्यं तथा युगल–स्वरूप–आरार्तिकी
इस्कॉन-मन्दिरात् अनन्तरं राष्ट्रपति-द्रौपदी-मुर्मु प्रेममन्दिरम् प्राप्तवती। तत्र अजयः बाबा अन्ये च पदाधिकारिणः तस्याः स्वागतं कृतवन्तः। राष्ट्रपतिः स्वकुलसहितं मन्दिरे आयोजितं विशेषं वाटर–लेजर–दृश्यं सानन्देन अवलोकितवती। ततः सा गर्भगृहं प्रति गत्वा श्री–राधा–कृष्ण–युगलस्वरूपस्य आरार्तिकी कृतवती। अस्मिन् अवसरे संकीर्तन–मण्डलेन ५१ आश्रमवासिनः मधुरं गायनं कृत्वा वातावरणं पूर्णतया कृष्णमयं कृतम्। राष्ट्रपतिः मन्दिरस्य परिक्रमां कृत्वा प्रथम–तले स्थितं श्री–सीता–रामदर्शनं अपि कृतवती। मन्दिर–प्रशासनद्वारा तस्यै प्रसादः, तुलसी–माला, दुपट्टा तथा धार्मिक–साहित्यं दत्तम्।
सुरक्षा–व्यवस्था: दृढाः
राष्ट्रपति–प्रवासाय सम्पूर्णे मथुरा–वृन्दावन–जनपदे सुरक्षा–व्यवस्था दृढतया आचरिता। एडीजी अनुपमकुलश्रेष्ठः एसएसपी श्लोककुमारः च स्वयं सुरक्षा–व्यवस्थायाः नियन्त्रणं कृतवन्तौ। राष्ट्रपतिमहोदयायाः जनपदप्रवासे ब्रज–संस्कृतेः धार्मिकं महत्त्वं विश्व–पटलं प्रति नवीन–ऊर्ध्वतां प्राप्तवती।
हिन्दुस्थान समाचार / अंशु गुप्ता