धामी मन्त्रीमण्डलस्य विस्तारः — पञ्च विधायका: मन्त्रीपदस्य शपथं च गृहीतवन्तः
देहरादूननगरम्, २० मार्चमासः (हि.स.)। उत्तराखण्डे मुख्यमन्त्री पुष्कर–सिंह धामी-इत्यस्य नेतृत्वेन मन्त्रीमण्डलस्य शुक्रवासरे विस्तारः कृतः। अस्मिन् अवसरे पञ्च विधायका: मन्त्रिपदस्य शपथं गृहीतवन्तः। शपथ–ग्रहण-समारोहः लोकभवने प्रातः प्रायः १०:३० वाद
देहरादून जिले के राजपुर विधानसभा के विधायक खजान दास शपथ ग्रहण लेते हुए।


देहरादूननगरम्, २० मार्चमासः (हि.स.)। उत्तराखण्डे मुख्यमन्त्री पुष्कर–सिंह धामी-इत्यस्य नेतृत्वेन मन्त्रीमण्डलस्य शुक्रवासरे विस्तारः कृतः। अस्मिन् अवसरे पञ्च विधायका: मन्त्रिपदस्य शपथं गृहीतवन्तः।

शपथ–ग्रहण-समारोहः

लोकभवने प्रातः प्रायः १०:३० वादनने आयोजिते शपथ–ग्रहण–समारोहे राज्यपालः लेफ्टिनेन्ट–जनरलः गुरमीत–सिंहः (से.नि.) नवनियुक्तान् मन्त्रिणः पद–गोपनीयता–शपथेन अभ्यर्चितवन्तः। शपथं ग्रहणकर्तृणां नामानि निम्नलिखितानि –

राजपुरनगरम् (देहरादूननगरम्) – खजान दासः, रुद्रप्रयागनगरम् – भरतसिंहः चौधरी, हरिद्वारनगरम् – मदनकौशिकः, रुड़कीनगरम् – प्रदीपः बत्रा, भीमतालनगरम् – रामसिंहः कैडा, मन्त्रीमण्डल–विस्तारस्य विशेषताः, वरिष्ठता तथा क्षेत्रीय–सन्तुलनं ध्यानं दत्वा, विभिन्न–जनपदेषु प्रतिनिधित्वं सुनिश्चितम्। मुख्यमन्त्रिणा नवनियुक्तान् मन्त्रिणः अभिनन्द्य, उक्तं यत् ते जनहितं विकासं च सर्वोच्च–प्राथमिकता दत्त्वा कार्यं कुर्वन्तु। समारोहे मन्त्रिणः, विधायका: तथा मुख्य–सचिवः इत्येतैः सह वरिष्ठ–प्रशासनिकाः उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता