Enter your Email Address to subscribe to our newsletters

— मुख्यमन्त्री धामी कार्यक्रम-स्थलस्य निरीक्षणं कृत्वा व्यवस्थासु निर्देशान् अयच्छत्
हल्द्वानीनगरम्, २० मार्चमासः (हि.स.)। धामी-सर्वकारस्य चत्वारि वर्षाणि पूर्णानि इत्यस्मिन् अवसरे नैनीताल-जनपदे एम.बी.इंटर-कॉलेज-हल्द्वानी-नगरे २१ मार्चमासे जनसभा आयोज्यते। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण रक्षामन्त्री राजनाथसिंहः सहभागी भविष्यति।
कार्यक्रमस्य सिद्धताः प्रति मुख्यमन्त्री पुष्करसिंहः धामी शुक्रवासरे हल्द्वानी-स्थं सर्किट-हाउस-इत्यत्र आगत्य काठगोदामे अधिकारिभिः सह सभां कृत्वा व्यवस्थाः समीक्षितवान् तथा आवश्यक-निर्देशान् अयच्छत्। ततः अनन्तरं सः एम.बी.इंटर-कॉलेज-क्रीडाङ्गणस्य स्थलीय-निरीक्षणं कृत्वा सिद्धताः अवलोकितवान्।
मुख्यमन्त्रिणा निर्देशितं यत् जनसभायाम् आगच्छतां जनानां कृते पर्याप्ता उपवेशन-व्यवस्था सुनिश्चितीकरणीया। तथा च पेयजलम्, स्वच्छता, शौचालयादीनि मूलभूत-सौविध्यानि सम्यक् व्यवस्थापनीयानि इति अपि विशेषतः उक्तम्, येन आगन्तुकानां कृते कस्यापि प्रकारस्य असुविधा न भवेत्। सः नगरे यातायात-व्यवस्थां सुचारुरूपेण स्थापयितुं पूर्वमेव मार्ग-विभाजन-योजना (रूट-डायवर्जन-प्लान) निर्माय तस्य व्यापक-प्रचार-प्रसारस्य निर्देशान् अपि दत्तवान्, येन स्थानीय-जनानां बहिर्गत-आगन्तुकानां च आवागमने कष्टं न भवेत्। सभायां कुमाऊं-आयुक्तेन दीपक-रावतेन कार्यक्रमस्य सिद्धताः विषये सूचना दत्ता।
अस्मिन् अवसरे क्षेत्रीय-सांसदः अजय-भट्टः, विधायकः कालाढूंगी-क्षेत्रात् बंशीधर-भगतः, लालकुआं-क्षेत्रात् मोहनसिंह-बिष्टः, नैनीताल-क्षेत्रात् सरिता-आर्या, रामनगर-क्षेत्रात् दीवानसिंह-बिष्टः, जनपद-पञ्चायत-अध्यक्षः दीपा-दरमवालः, भाजपा-जनपद-अध्यक्षः प्रताप-बिष्टः, प्रदेश-महामन्त्री तरुण-बंसलः, दायित्वधारिणः डॉ.अनिल-कपूरः (डब्बू), शंकर-कोरंगा, शान्ति-मेहरा, दिनेश-आर्यः, दीपक-मेहरा इत्येतैः सह कुमाऊं-क्षेत्रस्य आई.जी. रिद्धिम-अग्रवालः, जनपदाधिकारी ललित-मोहन-रयालः, वरिष्ठ-आरक्षक-अधीक्षकः डॉ.मंजूनाथः इत्येते च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता