उपराष्ट्रपतिः शनिवासरात् महाराष्ट्र-राज्यस्य द्विदिवसीय-प्रवासे भविष्यति
नवदिल्ली, २० मार्चमास: (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः २१ तथा २२ मार्चमासे महाराष्ट्र-राज्यस्य द्विदिवसीय-प्रवासे भविष्यति। पदभार-ग्रहणानन्तरं एषः तस्य राज्यस्य प्रथमप्रवासे भविष्यति। उपराष्ट्रपति-सचिवालयेन शुक्रवासरे सूचितं यत् उपराष्ट्र
उपराष्ट्रपति सी.पी. राधाकृष्णन (फाइल फोटो)


नवदिल्ली, २० मार्चमास: (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः २१ तथा २२ मार्चमासे महाराष्ट्र-राज्यस्य द्विदिवसीय-प्रवासे भविष्यति। पदभार-ग्रहणानन्तरं एषः तस्य राज्यस्य प्रथमप्रवासे भविष्यति।

उपराष्ट्रपति-सचिवालयेन शुक्रवासरे सूचितं यत् उपराष्ट्रपतिः २१ मार्चमसे नागपुर-स्थिते महर्षि-व्यास-सभागारे ‘भारतीय-युवा-संसदः’ इत्यस्य २९तम-राष्ट्रीय-सत्रस्य उद्घाटन-समारोहे सहभागी भविष्यति। ततः अनन्तरं सः मुम्बईनगरं गमिष्यति, यत्र रतन-टाटा-महाराष्ट्र-राज्य-कौशल-विश्वविद्यालयस्य प्रथम-दीक्षान्त-समारोहे तथा मुम्बई-स्थिते लोक-भवने ६४तम-जयन्-दीक्षा-समारोहे च सहभागी भविष्यति।

प्रवासस्य द्वितीय-दिवसे २२ मार्चमासे उपराष्ट्रपतिः महाराष्ट्रस्य पुणे-स्थिते उरुली-कञ्चने निसर्गोपचार-आश्रमस्य स्थापना-दिवस-कार्यक्रमे सहभागी भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता