Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 मार्चमासः (हि.स)।टाटा समूहस्य नेतृत्वे स्थिते एयर इंडिया तथा एयर इंडिया एक्सप्रेस अद्य २१ मार्चे पश्चिम एशिया क्षेत्रात् आगमन निर्गमनयोः कुलं ४२ उड्डयनानि सञ्चालयिष्यतः।
एयरलाइनसंस्थया शनिवासरे ‘एक्स’ नाम सामाजिकमाध्यमे प्रकाशिते वक्तव्ये उक्तं यत् एयर इंडिया तथा एयर इंडिया एक्सप्रेस मिलित्वा २१ मार्चे पश्चिम एशिया क्षेत्रात् आगमन निर्गमनयोः ४२ नियत तथा अनियत उड्डयनानि सञ्चालयिष्यतः। अपि च संस्थया उक्तं यत् जेद्दा तथा मस्कट गन्तुं उड्डयनसेवा अविरता भविष्यति। तथापि अस्य क्षेत्रस्य केषुचित् मार्गेषु उड्डयनानि अद्यापि अस्थायिरूपेण निलम्बितानि सन्ति।
एयरलाइनस्य अनुसारं एते द्वे संस्थे भारतस्य जेद्दा नगरस्य च मध्ये कुलं १६ उड्डयनानि सञ्चालयिष्यतः। एतेषु दिल्ली तथा मुम्बई नगराभ्यां एयर इंडियायाः प्रत्यागमन उड्डयनानि, हैदराबाद नगरात् एयर इंडिया एक्सप्रेसस्य एकं उड्डयनं च समाविष्टम् अस्ति। तदतिरिक्तं एयर इंडिया दिल्ली, कोच्चि, कोझिकोड तथा मुम्बई नगराभ्यः मस्कट प्रति अष्ट नियत उड्डयनानि अपि सञ्चालयिष्यति।
उल्लेखनीयम् यत् पश्चिम एशिया क्षेत्रे प्रवर्तमाने तनावपरिस्थितौ नागरिक उड्डयन महानिदेशालयेन एयरलाइनसंस्थाभ्यः खाड़ी क्षेत्रस्य केषुचित् वायुमार्गेभ्यः परिहरणाय परामर्शः दत्तः। तेन अपि उक्तं यत् एयरलाइनसंस्थाः स्वस्य सुरक्षा मूल्याङ्कनस्य अङ्गरूपेण आपत्कालीन उपायान् सज्जीकुर्युः।
---------------
हिन्दुस्थान समाचार