Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 21 मार्चमासः (हि.स.)।
असम-राज्यस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा शनिवासरे स्वतन्त्रता-सेनानिनः कुशल कोंवरस्य जयंती-अवसरे तस्मै श्रद्धाञ्जलिं समर्प्य तस्य आदर्शान् स्मृतवान्।
मुख्यमन्त्री स्वसन्देशे उक्तवान् यत् कुशल कोंवर केवलं स्वतन्त्रता-सेनानी एव नासीत्, अपि तु सत्यस्य, अहिंसायाः, आत्मबलिदानस्य च जीवन्-प्रतीकः आसीत्। तेन उक्तं यत् अद्यतनः असम-राज्यः यः शान्तेः, प्रगतेः, विकासस्य च मार्गे अग्रे गच्छति, तस्य आधारः तादृशानां शहीदानां बलिदानेषु निहितः अस्ति, येषां रक्तं अस्यां भूमौ समाहितम् अस्ति।
तेन उक्तं यत् कुशल कोंवरस्य जीवनं अस्मान् शिक्षयति यत् देशभक्तिः केवलं शब्दः न, अपि तु त्यागस्य समर्पणस्य च प्रतीकः अस्ति। अन्यायस्य विरुद्धं दृढतया स्थित्वा तेन स्वतन्त्रता-सङ्ग्रामे समर्पणस्य स्थानं बलिदानस्य मार्गः एव स्वीकृतः।
मुख्यमन्त्री भारतमातरः अस्य वीरसुपुत्रं तस्य जयंत्यवसरे श्रद्धया नत्वा तस्य योगदानं संस्मृतवान्।
हिन्दुस्थान समाचार